Sri Surya Panjara Stotram
Sri Surya Panjara Stotram
श्री सूर्य पञ्जर स्तोत्रम्
श्लोक 1
ॐ उदयगिरिमुपेतं भास्करं पद्महस्तं
सकलभुवननेत्रं रत्नरज्जूपमेयम् ।
तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां
सुरवरमभिवन्द्यं सुन्दरं विश्वदीपम्
श्लोक 2
ॐ शिखायां भास्कराय नमः ।
ललाटे सूर्याय नमः ।
भ्रूमध्ये भानवे नमः ।
कर्णयोः दिवाकराय नमः ।
नासिकायां भानवे नमः ।
नेत्रयोः सवित्रे नमः ।
मुखे भास्कराय नमः ।
ओष्ठयोः पर्जन्याय नमः ।
पादयोः प्रभाकराय नमः
॥ 1 ॥
श्लोक 3
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
ॐ हंसां हंसीं हंसूं हंसैं हंसौं हंसः
॥ 2 ॥
श्लोक 4
ॐ सत्यतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ॐ स्थितिरूपककारणाय पूर्वादिग्भागे मां रक्षतु
॥ 3 ॥
श्लोक 5
ॐ ब्रह्मतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ॐ तारकब्रह्मरूपाय परयन्त्र-परतन्त्र-परमन्त्र-सर्वोपद्रवनाशनार्थं दक्षिणदिग्भागे मां रक्षतु
॥ 4 ॥
श्लोक 6
ॐ विष्णुतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ॐ प्रचण्डमार्ताण्ड उग्रतेजोरूपिणे मुकुरवर्णाय तेजोवर्णाय मम सर्वराजस्त्रीपुरुष-वशीकरणार्थं पश्चिमदिग्भागे मां रक्षतु
॥ 5 ॥
श्लोक 7
ॐ रुद्रतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ॐ भवाय रुद्ररूपिणे उत्तरदिग्भागे सर्वमृत्योपशमनार्थं मां रक्षतु
॥ 6 ॥
श्लोक 8
ॐ अग्नितेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ॐ तिमिरतेजसे सर्वरोगनिवारणाय ऊर्ध्वदिग्भागे मां रक्षतु
॥ 7 ॥
श्लोक 9
ॐ सर्वतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ॐ नमस्कारप्रियाय श्रीसूर्यनारायणाय अधोदिग्भागे सर्वाभीष्टसिद्ध्यर्थं मां रक्षतु
॥ 8 ॥
श्लोक 10
मार्ताण्डाय नमः भानवे नमः
हंसाय नमः सूर्याय नमः
दिवाकराय नमः तपनाय नमः
भास्कराय नमः मां रक्षतु
॥ 9 ॥
श्लोक 11
मित्र-रवि-सूर्य-भानु-खगपूष-हिरण्यगर्भ-
मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः शिरस्थाने मां रक्षतु
॥ 10 ॥
श्लोक 12
सूर्यादि नवग्रहेभ्यो नमः ललाटस्थाने मां रक्षतु
॥ 11 ॥
श्लोक 13
धराय नमः धृवाय नमः
सोमाय नमः अथर्वाय नमः
अनिलाय नमः अनलाय नमः
प्रत्यूषाय नमः प्रतापाय नमः
मूर्ध्निस्थाने मां रक्षतु
॥ 12 ॥
श्लोक 14
वीरभद्राय नमः गिरीशाय नमः
शम्भवे नमः अजैकपदे नमः
अहिर्बुध्ने नमः पिनाकिने नमः
भुवनाधीश्वराय नमः दिशान्तपतये नमः
पशुपतये नमः स्थाणवे नमः
भवाय नमः ललाटस्थाने मां रक्षतु
॥ 13 ॥
श्लोक 15
धात्रे नमः अंशुमते नमः
पूष्णे नमः पर्जन्याय नमः
विष्णवे नमः नेत्रस्थाने मां रक्षतु
॥ 14 ॥
श्लोक 16
अरुणाय नमः सूर्याय नमः
इन्द्राय नमः रवये नमः
सुवर्णरेतसे नमः यमाय नमः
दिवाकराय नमः कर्णस्थाने मां रक्षतु
॥ 15 ॥
श्लोक 17
असिताङ्गभैरवाय नमः रुरुभैरवाय नमः
चण्डभैरवाय नमः क्रोधभैरवाय नमः
उन्मत्तभैरवाय नमः भीषणभैरवाय नमः
कालभैरवाय नमः संहारभैरवाय नमः
मुखस्थाने मां रक्षतु
॥ 16 ॥
श्लोक 18
ब्राह्म्यै नमः महेश्वर्यै नमः
कौमार्यै नमः वैष्णव्यै नमः
वराह्यै नमः इन्द्राण्यै नमः
चामुण्डायै नमः कण्ठस्थाने मां रक्षतु
॥ 17 ॥
श्लोक 19
इन्द्राय नमः अग्नये नमः
यमाय नमः निर्ऋतये नमः
वरुणाय नमः वायवे नमः
कुबेराय नमः ईशानाय नमः
बाहुस्थाने मां रक्षतु
॥ 18 ॥
श्लोक 20
मेषादिद्वादशराशिभ्यो नमः हृदयस्थाने मां रक्षतु
॥ 19 ॥
श्लोक 21
वज्रायुधाय नमः शक्त्यायुधाय नमः
दण्डायुधाय नमः खड्गायुधाय नमः
पाशायुधाय नमः अङ्कुशायुधाय नमः
गदायुधाय नमः त्रिशूलायुधाय नमः
पद्मायुधाय नमः चक्रायुधाय नमः
कटिस्थाने मां रक्षतु
॥ 20 ॥
श्लोक 22
मित्राय नमः दक्षिणहस्ते मां रक्षतु ।
रवये नमः वामहस्ते मां रक्षतु ।
सूर्याय नमः हृदये मां रक्षतु ।
भानवे नमः मूर्ध्निस्थाने मां रक्षतु ।
खगाय नमः दक्षिणपादे मां रक्षतु ।
पूष्णे नमः वामपादे मां रक्षतु ।
हिरण्यगर्भाय नमः नाभिस्थाने मां रक्षतु ।
मरीचये नमः कण्ठस्थाने मां रक्षतु ।
आदित्याय नमः दक्षिणचक्षूषि मां रक्षतु ।
सवित्रे नमः वामचक्षुषि मां रक्षतु ।
भास्कराय नमः हस्ते मां रक्षतु ।
अर्काय नमः कवचे मां रक्षतु ॥ 22
ॐ भास्कराय विद्महे महाद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात्
॥ 21 ॥
श्लोक 23
इति श्री सूर्य पञ्जर स्तोत्रम् ॥
Related Scriptures
श्री आदित्य (सूर्य) द्वादश नाम स्तोत्रम्
6 verses
श्री सूर्य नमस्कार मन्त्रम्
0 verses
श्री सूर्य शतकम्
101 verses
श्री सूर्योपनिषद्
0 verses
Rudrayamala 1000 Names of Lord Surya
1000 verses
Bhavishya Purana 1000 Names of Lord Surya
1000 verses
