Stotram - Sacred Scripture

Sri Adiya (Surya) Dwadasha Nama Stotram

Sri Adiya (Surya) Dwadasha Nama Stotram

Stotram
Surya
6 Verses
110%

श्री आदित्य (सूर्य) द्वादश नाम स्तोत्रम्

श्लोक 1

आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः ।

तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः

श्लोक 2

पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।

सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः

॥ 1 ॥

श्लोक 3

नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः ।

एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च

॥ 2 ॥

श्लोक 4

द्वादशादित्यनामानि प्रातः काले पठेन्नरः ।

दुःस्वप्नो नश्यते तस्य सर्वदुःखं च नश्यति

॥ 3 ॥

श्लोक 5

दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् ।

सर्वतीर्थकरं चैव सर्वकामफलप्रदम्

॥ 4 ॥

श्लोक 6

यः पठेत् प्रातरुत्थाय भक्त्या स्तोत्रमिदं नरः ।

सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च

॥ 5 ॥

श्लोक 7

इति श्री आदित्य द्वादशनाम स्तोत्रम् ।

श्री आदित्य (सूर्य) द्वादश नाम स्तोत्रम् | (Sri Adiya (Surya) Dwadasha Nama Stotram) Lyrics | Vedic Tithi