Stotram - Sacred Scripture

Surya Mandala Stotram

Surya Mandala Stotram

Stotram
Surya
12 Verses
110%

सूर्य मण्डल स्तोत्रम्

श्लोक 1

नमोऽस्तु सूर्याय सहस्ररश्मये

सहस्रशाखान्वित सम्भवात्मने ।

सहस्रयोगोद्भव भावभागिने

सहस्रसङ्ख्यायुधधारिणे नमः

श्लोक 2

यन्मण्डलं दीप्तिकरं विशालं

रत्नप्रभं तीव्रमनादिरूपम् ।

दारिद्र्यदुःखक्षयकारणं च

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 1 ॥

श्लोक 3

यन्मण्डलं देवगणैः सुपूजितं

विप्रैः स्तुतं भावनमुक्तिकोविदम् ।

तं देवदेवं प्रणमामि सूर्यं

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 2 ॥

श्लोक 4

यन्मण्डलं ज्ञानघनन्त्वगम्यं

त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।

समस्ततेजोमयदिव्यरूपं

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 3 ॥

श्लोक 5

यन्मण्डलं गूढमतिप्रबोधं

धर्मस्य वृद्धिं कुरुते जनानाम् ।

यत्सर्वपापक्षयकारणं च

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 4 ॥

श्लोक 6

यन्मण्डलं व्याधिविनाशदक्षं

यदृग्यजुः सामसु सम्प्रगीतम् ।

प्रकाशितं येन च भूर्भुवः स्वः

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 5 ॥

श्लोक 7

यन्मण्डलं वेदविदो वदन्ति

गायन्ति यच्चारणसिद्धसङ्घाः ।

यद्योगिनो योगजुषां च सङ्घाः

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 6 ॥

श्लोक 8

यन्मण्डलं सर्वजनैश्च पूजितं

ज्योतिश्च कुर्यादिह मर्त्यलोके ।

यत्कालकालाद्यमनादिरूपं

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 7 ॥

श्लोक 9

यन्मण्डलं विष्णुचतुर्मुखाख्यं

यदक्षरं पापहरं जनानाम् ।

यत्कालकल्पक्षयकारणं च

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 8 ॥

श्लोक 10

यन्मण्डलं विश्वसृजं प्रसिद्धं

उत्पत्तिरक्षप्रलय प्रगल्भम् ।

यस्मिन् जगत्संहरतेऽखिलं च

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 9 ॥

श्लोक 11

यन्मण्डलं सर्वगतस्य विष्णोः

आत्मा परं‍धाम विशुद्धतत्त्वम् ।

सूक्ष्मान्तरैर्योगपथानुगम्यं

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 10 ॥

श्लोक 12

यन्मण्डलं वेदविदोपगीतं

यद्योगिनां योग पथानुगम्यम् ।

तत्सर्व वेद्यं प्रणमामि सूर्यं

पुनातु मां तत्सवितुर्वरेण्यम्

॥ 11 ॥

श्लोक 13

सूर्यमण्डलसु स्तोत्रं यः पठेत्सततं नरः ।

सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥

इति श्री भविष्योत्तरपुराणे श्री कृष्णार्जुन संवादे सूर्यमण्डल स्तोत्रम् ।