Stotram - Sacred Scripture

Surya Ashtottara Sata Nama Stotram

Surya Ashtottara Sata Nama Stotram

Stotram
Surya
20 Verses
110%

सूर्य अष्टोत्तर शत नाम स्तोत्रम्

श्लोक 1

अरुणाय शरण्याय करुणारससिन्धवे ।

असमानबलायाऽऽर्तरक्षकाय नमो नमः

श्लोक 2

आदित्यायाऽऽदिभूताय अखिलागमवेदिने ।

अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः

॥ 1 ॥

श्लोक 3

इनाय विश्वरूपाय इज्यायैन्द्राय भानवे ।

इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः

॥ 2 ॥

श्लोक 4

ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।

वसुप्रदाय वसवे वासुदेवाय ते नमः

॥ 3 ॥

श्लोक 5

उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।

उद्यत्किरणजालाय हृषीकेशाय ते नमः

॥ 4 ॥

श्लोक 6

ऊर्जस्वलाय वीराय निर्जराय जयाय च ।

ऊरुद्वयाभावरूपयुक्तसारथये नमः

॥ 5 ॥

श्लोक 7

ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च ।

ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः

॥ 6 ॥

श्लोक 8

ॠकारमातृकावर्णरूपायोज्ज्वलतेजसे ।

ॠक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः

॥ 7 ॥

श्लोक 9

लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च ।

कनत्कनकभूषाय खद्योताय नमो नमः

॥ 8 ॥

श्लोक 10

लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे ।

अपवर्गप्रदायाऽऽर्तशरण्याय नमो नमः

॥ 9 ॥

श्लोक 11

एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे ।

गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः

॥ 10 ॥

श्लोक 12

ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।

दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः

॥ 11 ॥

श्लोक 13

ओजस्कराय जयिने जगदानन्दहेतवे ।

जन्ममृत्युजराव्याधिवर्जिताय नमो नमः

॥ 12 ॥

श्लोक 14

औन्नत्यपदसञ्चाररथस्थायात्मरूपिणे ।

कमनीयकरायाऽब्जवल्लभाय नमो नमः

॥ 13 ॥

श्लोक 15

अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽऽत्मरूपिणे ।

अच्युताय सुरेशाय परस्मै ज्योतिषे नमः

॥ 14 ॥

श्लोक 16

अहस्कराय रवये हरये परमात्मने ।

तरुणाय वरेण्याय ग्रहाणां पतये नमः

॥ 15 ॥

श्लोक 17

ॐ नमो भास्करायाऽऽदिमध्यान्तरहिताय च ।

सौख्यप्रदाय सकलजगतां पतये नमः

॥ 16 ॥

श्लोक 18

नमः सूर्याय कवये नमो नारायणाय च ।

नमो नमः परेशाय तेजोरूपाय ते नमः

॥ 17 ॥

श्लोक 19

ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च ।

ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः

॥ 18 ॥

श्लोक 20

श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।

निखिलागमवेद्याय नित्यानन्दाय ते नमः

॥ 19 ॥

श्लोक 21

इति श्री सूर्य अष्टोत्तरशतनाम स्तोत्रम् ।