Stotram - Sacred Scripture

Sri Panchayudha Stotram

Sri Panchayudha Stotram

Stotram
Unknown
7 Verses
110%

श्री पञ्चायुध स्तोत्रम्

श्लोक 1

स्फुरत्सहस्रारशिखातितीव्रं

सुदर्शनं भास्करकोटितुल्यम् ।

सुरद्विषां प्राणविनाशि विष्णोः

चक्रं सदाऽहं शरणं प्रपद्ये

श्लोक 2

विष्णोर्मुखोत्थानिलपूरितस्य

यस्य ध्वनिर्दानवदर्पहन्ता ।

तं पाञ्चजन्यं शशिकोटिशुभ्रं

शङ्खं सदाऽहं शरणं प्रपद्ये

॥ 1 ॥

श्लोक 3

हिरण्मयीं मेरुसमानसारां

कौमोदकीं दैत्यकुलैकहन्त्रीम् ।

वैकुण्ठवामाग्रकराग्रमृष्टां

गदां सदाऽहं शरणं प्रपद्ये

॥ 2 ॥

श्लोक 4

यज्ज्यानिनादश्रवणात्सुराणां

चेतांसि निर्मुक्तभयानि सद्यः ।

भवन्ति दैत्याशनिबाणवर्षैः

शार्ङ्गं सदाऽहं शरणं प्रपद्ये

॥ 3 ॥

श्लोक 5

रक्षोऽसुराणां कठिनोग्रकण्ठ-

-च्छेदक्षरत्‍क्षोणित दिग्धसारम् ।

तं नन्दकं नाम हरेः प्रदीप्तं

खड्गं सदाऽहं शरणं प्रपद्ये

॥ 4 ॥

श्लोक 6

इमं हरेः पञ्चमहायुधानां

स्तवं पठेद्योऽनुदिनं प्रभाते ।

समस्त दुःखानि भयानि सद्यः

पापानि नश्यन्ति सुखानि सन्ति

॥ 5 ॥

श्लोक 7

वने रणे शत्रु जलाग्निमध्ये

यदृच्छयापत्सु महाभयेषु ।

पठेत्विदं स्तोत्रमनाकुलात्मा

सुखीभवेत्तत्कृत सर्वरक्षः

॥ 6 ॥

श्लोक 8

सचक्रशङ्खं सगदासिशार्ङ्गं

पीताम्बरं कौस्तुभ-वत्स-चिह्नम् । [कौस्तुभ-वत्स-लाञ्छितम्]

श्रिया समेतोज्ज्वल शोभिताङ्गं

विष्णुं सदाऽहं शरणं प्रपद्ये ॥

जले रक्षतु वाराहः स्थले रक्षतु वामनः ।

अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥

इति पञ्चायुध स्तोत्रम् ॥