Ranganatha Ashtakam
Ranganatha Ashtakam
रङ्गनाथ अष्टकं
श्लोक 1
आनन्दरूपे निजबोधरूपे
ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे ।
शशाङ्करूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे
श्लोक 2
कावेरितीरे करुणाविलोले
मन्दारमूले धृतचारुकेले ।
दैत्यान्तकालेऽखिललोकलीले
श्रीरङ्गलीले रमतां मनो मे
॥ 1 ॥
श्लोक 3
लक्ष्मीनिवासे जगतां निवासे
हृत्पद्मवासे रविबिम्बवासे ।
कृपानिवासे गुणबृन्दवासे
श्रीरङ्गवासे रमतां मनो मे
॥ 2 ॥
श्लोक 4
ब्रह्मादिवन्द्ये जगदेकवन्द्ये
मुकुन्दवन्द्ये सुरनाथवन्द्ये ।
व्यासादिवन्द्ये सनकादिवन्द्ये
श्रीरङ्गवन्द्ये रमतां मनो मे
॥ 3 ॥
श्लोक 5
ब्रह्माधिराजे गरुडाधिराजे
वैकुण्ठराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिललोकराजे
श्रीरङ्गराजे रमतां मनो मे
॥ 4 ॥
श्लोक 6
अमोघमुद्रे परिपूर्णनिद्रे
श्रीयोगनिद्रे ससमुद्रनिद्रे ।
श्रितैकभद्रे जगदेकनिद्रे
श्रीरङ्गभद्रे रमतां मनो मे
॥ 5 ॥
श्लोक 7
सचित्रशायी भुजगेन्द्रशायी
नन्दाङ्कशायी कमलाङ्कशायी ।
क्षीराब्धिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे
॥ 6 ॥
श्लोक 8
इदं हि रङ्गं त्यजतामिहाङ्गं
पुनर्न चाङ्गं यदि चाङ्गमेति ।
पाणौ रथाङ्गं चरणेऽम्बु गाङ्गं
याने विहङ्गं शयने भुजङ्गम्
॥ 7 ॥
श्लोक 9
रङ्गनाथाष्टकं पुण्यं प्रातरुत्थाय यः पठेत् ।
सर्वान्कामानवाप्नोति रङ्गिसायुज्यमाप्नुयात्
॥ 8 ॥
श्लोक 10
इति श्री रङ्गनाथाष्टकम् ।
