Mantra - Sacred Scripture

Sri Medha Dakshina Murthy Stotram

Sri Medha Dakshina Murthy Stotram

Mantra
Unknown
24 Verses
110%

श्री मेधा दक्षिणामूर्ति मन्त्रवर्णपद स्तुतिः

श्लोक 1

ओमित्येकाक्षरं ब्रह्म व्याहरन्ति त्रयश्शिखाः ।

तस्मैतारात्मने मेधादक्षिणामूर्तये नमः

श्लोक 2

नत्वा यं मुनयस्सर्वे परंयान्ति दुरासदम् ।

नकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 1 ॥

श्लोक 3

मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् ।

मोकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 2 ॥

श्लोक 4

भवमाश्रित्ययं विद्वान् नभवोह्यभवत्परः ।

भकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 3 ॥

श्लोक 5

गगनाकारवद्भान्तमनुभात्यखिलं जगत् ।

गकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 4 ॥

श्लोक 6

वटमूलनिवासो यो लोकानां प्रभुरव्ययः ।

वकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 5 ॥

श्लोक 7

तेजोभिर्यस्यसूर्योऽसौ कालक्लृप्तिकरो भवेत् ।

तेकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 6 ॥

श्लोक 8

दक्षत्रिपुरसंहारे यः कालविषभञ्जने ।

दकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 7 ॥

श्लोक 9

क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् ।

क्षिकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 8 ॥

श्लोक 10

णाकारवाच्योयस्सुप्तं सन्दीपयति मे मनः ।

णाकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 9 ॥

श्लोक 11

मूर्तयो ह्यष्टधायस्य जगज्जन्मादिकारणम् ।

मूकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 10 ॥

श्लोक 12

तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः ।

सरेफतात्मने मेधादक्षिणामूर्तये नमः

॥ 11 ॥

श्लोक 13

येयं विदित्वा ब्रह्माद्या ऋषयो यान्ति निर्वृतिम् ।

येकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 12 ॥

श्लोक 14

महतां देवमित्याहुर्निगमागमयोश्शिवः ।

मकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 13 ॥

श्लोक 15

सर्वस्यजगतो ह्यन्तर्बहिर्यो व्याप्यसंस्थितः ।

ह्यकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 14 ॥

श्लोक 16

त्वमेव जगतस्साक्षी सृष्टिस्थित्यन्तकारणम् ।

मेकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 15 ॥

श्लोक 17

धामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते ।

धाङ्काररूपिणे मेधादक्षिणामूर्तये नमः

॥ 16 ॥

श्लोक 18

प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः ।

प्रकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 17 ॥

श्लोक 19

ज्ञानिनोयमुपास्यन्ति तत्त्वातीतं चिदात्मकम् ।

ज्ञाकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 18 ॥

श्लोक 20

प्रज्ञा सञ्जायते यस्य ध्याननामार्चनादिभिः ।

प्रकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 19 ॥

श्लोक 21

यस्य स्मरणमात्रेण नरोमुक्तस्सबन्धनात् । [ सरोमुक्त ]

यकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 20 ॥

श्लोक 22

छवेर्यन्नेन्द्रियाण्यापुर्विषयेष्विह जाड्यताम् ।

छकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 21 ॥

श्लोक 23

स्वान्तेविदां जडानां यो दूरेतिष्ठति चिन्मयः ।

स्वाकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 22 ॥

श्लोक 24

हारप्रायफणीन्द्राय सर्वविद्याप्रदायिने ।

हाकाररूपिणे मेधादक्षिणामूर्तये नमः

॥ 23 ॥

श्लोक 25

इति श्री मेधादक्षिणामूर्ति मन्त्रवर्णपद स्तुतिः ॥