Mantra - Sacred Scripture

Maha Ganapati Mula Mantra Pada Mala Stotram

Maha Ganapati Mula Mantra Pada Mala Stotram

Mantra
Unknown
15 Verses
110%

महा गणपति मूल मन्त्राः (पाद माला स्तोत्रम्)

श्लोक 1

॥ मूलमन्त्रम् ॥

॥ ॐ ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद

सर्वजनं मे वशमानय स्वाहा ॥

॥ अथ स्तोत्रम्॥

ॐ इत्येतदजस्य कण्ठविवरं भित्वा बहिर्निर्गतं

ह्योमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः ।

ओमित्येव सदा जपन्ति यतयः स्वातमैकनिष्ठाः परं

ह्योङ्काराकृतिवक्त्रमिन्दुनिटिलं विघ्नेश्वरं भवाये

श्लोक 2

श्रीम्बीजं श्रमदुःखजन्ममरणव्याध्याधिभीनाशकं

मृत्युक्रोधनशान्तिबिन्दुविलसद्वर्णाकृतिश्रीप्रदम् ।

स्वान्तःस्वात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं

श्रीश्रीनायकसेविते भवदनप्रेमास्पदं भावये

॥ 1॥

श्लोक 3

ह्रीम्बीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा

चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् ।

मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं

मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम्

॥ 2॥

श्लोक 4

क्लीम्बीजं कलिधातुवत्कलयतां सर्वेष्टदं देहिनां

धातृक्ष्मायुतशान्तिबिन्दुविलसद्वर्णात्मकं कामदम् ।

श्रीकृष्णप्रियमिन्दिरासुतमनःप्रीत्येकहेतुं परं

हृत्पद्मे कलये सदा कलिहरं कालारिपुत्रप्रियम्

॥ 3॥

श्लोक 5

ग्लौम्बीजं गुणरूपनिर्गुणपरब्रह्मादिशक्तेर्महा-

हङ्काराकृतिदण्डिनीप्रियमजश्रीनाथरुद्रेष्टदम् ।

सर्वाकर्षिणिदेवराजभुवनार्णेन्द्वात्मकं श्रीकरं

चित्ते विघ्ननिवारणाय गिरिजजातप्रियं भावये

॥ 4॥

श्लोक 6

गङ्गासुतं गन्धमुखोपचारप्रियं खगारोहणभागिनेयम् ।

गङ्गासुताद्यं वरगन्धतत्त्वमूलाम्बुजस्थं हृदि भावयेऽहम्

॥ 5॥

श्लोक 7

गणपतये वरगुणनिधये सुरगणपतये नतजनततये ।

मणिगणभूषितचरणयुगाश्रितमलहरणे चण ते नमः

॥ 6॥

श्लोक 8

वराभये मोदकमेकदन्तं कराम्बुजातैः सततं धरन्तम् ।

वराङ्गचन्द्रं परभक्तिसान्द्रैर्जनैर्भजन्तं कलये सदाऽन्तः

॥ 7॥

श्लोक 9

वरद नतजनानां सन्ततं वक्रतुण्ड

स्वरमयनिजगात्र स्वात्मबोधैकहेतो ।

करलसदमृताम्भोपूर्णपत्राद्य मह्यं

गरगलसुत शीघ्रं देहि मद्बोधमीड्यम्

॥ 8॥

श्लोक 10

सर्वजनं परिपालय शर्वज

पर्वसुधाकरगर्वहर ।

पर्वतनाथसुतासुत पालय

खर्वं मा कुरु दीनमिमम्

॥ 9॥

श्लोक 11

मेदोऽस्थिमांसरुधिरान्त्रमये शरीरे

मेदिन्यबग्निमरुदम्बरलास्यमाने ।

मे दारुणं मदमुखाघमुमाज हृत्वा

मेधाह्वयासनवरे वस दन्तिवक्त्र

॥ 10 ॥

श्लोक 12

वशं कुरु त्वं शिवजात मां ते वशीकृताशेषसमस्तलोक ।

वसार्णसंशोभितमूलपद्मलसच्छ्रियाऽलिङ्तवारणास्य

॥ 11॥

श्लोक 13

आनयाशुपदवारिजान्तिकं मां नयादिगुणवर्जितं तव ।

हानिहीनपदजामृतस्य ते पानयोग्यमिभवक्त्र मां कुरु

॥ 12॥

श्लोक 14

स्वाहास्वरूपेण विराजसे त्वं सुधाशनानां प्रियकर्मणीड्यम् ।

स्वधास्वरूपेण तु पित्र्यकर्मण्युमासुतेज्यामयविश्वमूर्ते

॥ 13॥

श्लोक 15

अष्टाविंशतिवर्णपत्रलसितं हारं गणेशप्रियं

कष्टाऽनिष्टहरं चतुर्दशपदैः पुष्पैर्मनोहारकम् ।

तुष्ट्यादिप्रदसद्गुरुत्तमपदाम्भोजे चिदानन्ददं

शिष्टेष्टोऽहमनन्तसूत्रहृदयाऽऽबद्धं सुभक्त्याऽर्पये

॥ 14॥

श्लोक 16

॥ इति श्रीअनन्तानन्दकृतं श्रीगुरुचिदानन्दनाथसमर्पितं

श्रीमहागणपतिमूलमन्त्रमालास्तोत्रम् ॥