Mantra - Sacred Scripture

Sri Surya Namaskara Mantram

Sri Surya Namaskara Mantram

Mantra
Surya
0 Verses
110%

श्री सूर्य नमस्कार मन्त्रम्

श्लोक 1

ध्येयः सदा सवितृमण्डलमध्यवर्ती

नारायणः सरसिजासन सन्निविष्टः ।

केयूरवान् मकरकुण्डलवान् किरीटी

हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥

ॐ मित्राय नमः । 1

ॐ रवये नमः । 2

ॐ सूर्याय नमः । 3

ॐ भानवे नमः । 4

ॐ खगाय नमः । 5

ॐ पूष्णे नमः । 6

ॐ हिरण्यगर्भाय नमः । 7

ॐ मरीचये नमः । 8

ॐ आदित्याय नमः । 9

ॐ सवित्रे नमः । 10

ॐ अर्काय नमः । 11

ॐ भास्कराय नमः । 12

आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।

आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥