Stotram - Sacred Scripture

Dakshina Murthy Stotram

Dakshina Murthy Stotram

Stotram
Unknown
18 Verses
110%

दक्षिणा मूर्ति स्तोत्रम्

श्लोक 1

शान्तिपाठः

ॐ यो ब्रह्माणं विदधाति पूर्वं

यो वै वेदांश्च प्रहिणोति तस्मै ।

तं ह देवमात्मबुद्धिप्रकाशं

मुमुक्षुर्वै शरणमहं प्रपद्ये ॥

ध्यानम्

ॐ मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं

वर्षिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।

आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं

स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे

श्लोक 2

वटविटपिसमीपेभूमिभागे निषण्णं

सकलमुनिजनानां ज्ञानदातारमारात् ।

त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं

जननमरणदुःखच्छेददक्षं नमामि

॥ 1 ॥

श्लोक 3

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।

गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः

॥ 2 ॥

श्लोक 4

निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।

गुरवे सर्वलोकानां दक्षिणामूर्तये नमः

॥ 3 ॥

श्लोक 5

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।

निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः

॥ 4 ॥

श्लोक 6

चिद्घनाय महेशाय वटमूलनिवासिने ।

सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः

॥ 5 ॥

श्लोक 7

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।

व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः

॥ 6 ॥

श्लोक 8

अङ्गुष्ठतर्जनी योगमुद्रा व्याजेनयोगिनाम् ।

शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः

॥ 7 ॥

श्लोक 9

ॐ शान्तिः शान्तिः शान्तिः ॥

स्तोत्रम्

विश्वं दर्पण-दृश्यमान-नगरी तुल्यं निजान्तर्गतं

पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।

यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमे वाद्वयं

तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये

॥ 8 ॥

श्लोक 10

बीजस्यान्तरि-वाङ्कुरो जगदितं प्राङ्निर्विकल्पं पुनः

मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतम् ।

मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया

तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये

॥ 1 ॥

श्लोक 11

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते

साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।

यस्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ

तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये

॥ 2 ॥

श्लोक 12

नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं

ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दते ।

जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्

तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये

॥ 3 ॥

श्लोक 13

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः

स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ताभृशं वादिनः ।

मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे

तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये

॥ 4 ॥

श्लोक 14

राहुग्रस्त दिवाकरेन्दु सदृशो माया समाच्छादनात्

सन्मात्रः करणोप संहरणतो योऽभूत्सुषुप्तः पुमान् ।

प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते

तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये

॥ 5 ॥

श्लोक 15

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि

व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ।

स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया

तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये

॥ 6 ॥

श्लोक 16

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः

शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः ।

स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः

तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये

॥ 7 ॥

श्लोक 17

भूरम्भांस्यनलोऽनिलोम्बर महर्नाथो हिमांशुः पुमान्

इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।

नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो

तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये

॥ 8 ॥

श्लोक 18

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे

तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च सङ्कीर्तनात् ।

सर्वात्मत्व महाविभूतिसहितं स्यादीश्वरत्वं स्वतः

सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य-मव्याहतम्

॥ 9 ॥

श्लोक 19

॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामूर्तिस्तोत्रं सम्पूर्णम् ॥

दक्षिणा मूर्ति स्तोत्रम् | (Dakshina Murthy Stotram) Lyrics | Vedic Tithi