Stotram - Sacred Scripture

Sri Kamakshi Stotram

Sri Kamakshi Stotram

Stotram
Unknown
10 Verses
110%

श्री कामाक्षी स्तोत्रम्

श्लोक 1

कल्पानोकहपुष्पजालविलसन्नीलालकां मातृकां

कान्तां कञ्जदलेक्षणां कलिमलप्रध्वंसिनीं कालिकाम् ।

काञ्चीनूपुरहारदामसुभगां काञ्चीपुरीनायिकां

कामाक्षीं करिकुम्भसन्निभकुचां वन्दे महेशप्रियाम्

श्लोक 2

काशाभां शुकभासुरां प्रविलसत्कोशातकी सन्निभां

चन्द्रार्कानललोचनां सुरुचिरालङ्कारभूषोज्ज्वलाम् ।

ब्रह्मश्रीपतिवासवादिमुनिभिः संसेविताङ्घ्रिद्वयां

कामाक्षीं गजराजमन्दगमनां वन्दे महेशप्रियाम्

॥ 1 ॥

श्लोक 3

ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थरूपां परां

वाचामादिमकारणं हृदि सदा ध्यायन्ति यां योगिनः ।

बालां फालविलोचनां नवजपावर्णां सुषुम्नाश्रितां

कामाक्षीं कलितावतंससुभगां वन्दे महेशप्रियाम्

॥ 2 ॥

श्लोक 4

यत्पादाम्बुजरेणुलेशमनिशं लब्ध्वा विधत्ते विधि-

-र्विश्वं तत्परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् ।

रुद्रः संहरति क्षणात्तदखिलं यन्मायया मोहितः

कामाक्षीमतिचित्रचारुचरितां वन्दे महेशप्रियाम्

॥ 3 ॥

श्लोक 5

सूक्ष्मात्सूक्ष्मतरां सुलक्षिततनुं क्षान्ताक्षरैर्लक्षितां

वीक्षाशिक्षितराक्षसां त्रिभुवनक्षेमङ्करीमक्षयाम् ।

साक्षाल्लक्षणलक्षिताक्षरमयीं दाक्षायणीं साक्षिणीं

कामाक्षीं शुभलक्षणैः सुललितां वन्दे महेशप्रियाम्

॥ 4 ॥

श्लोक 6

ओङ्काराङ्गणदीपिकामुपनिषत्प्रासादपारावतीं

आम्नायाम्बुधिचन्द्रिकामघतमःप्रध्वंसहंसप्रभाम् ।

काञ्चीपट्टणपञ्जरान्तरशुकीं कारुण्यकल्लोलिनीं

कामाक्षीं शिवकामराजमहिषीं वन्दे महेशप्रियाम्

॥ 5 ॥

श्लोक 7

ह्रीङ्कारात्मकवर्णमात्रपठनादैन्द्रीं श्रियं तन्वतीं

चिन्मात्रां भुवनेश्वरीमनुदिनं भिक्षाप्रदानक्षमाम् ।

विश्वाघौघनिवारिणीं विमलिनीं विश्वम्भरां मातृकां

कामाक्षीं परिपूर्णचन्द्रवदनां वन्दे महेशप्रियाम्

॥ 6 ॥

श्लोक 8

वाग्देवीति च यां वदन्ति मुनयः क्षीराब्धिकन्येति च

क्षोणीभृत्तनयेति च श्रुतिगिरो यां आमनन्ति स्फुटम् ।

एकानेकफलप्रदां बहुविधाऽऽकारास्तनूस्तन्वतीं

कामाक्षीं सकलार्तिभञ्जनपरां वन्दे महेशप्रियाम्

॥ 7 ॥

श्लोक 9

मायामादिमकारणं त्रिजगतामाराधिताङ्घ्रिद्वयां

आनन्दामृतवारिराशिनिलयां विद्यां विपश्चिद्धियाम् ।

मायामानुषरूपिणीं मणिलसन्मध्यां महामातृकां

कामाक्षीं करिराजमन्दगमनां वन्दे महेशप्रियाम्

॥ 8 ॥

श्लोक 10

कान्ता कामदुघा करीन्द्रगमना कामारिवामाङ्कगा

कल्याणी कलितावतारसुभगा कस्तूरिकाचर्चिता

कम्पातीररसालमूलनिलया कारुण्यकल्लोलिनी

कल्याणानि करोतु मे भगवती काञ्चीपुरीदेवता

॥ 9 ॥

श्लोक 11

इति श्री कामाक्षी स्तोत्रम् ।