Stotram - Sacred Scripture

Sani Ashtottara Sata Nama Stotram

Sani Ashtottara Sata Nama Stotram

Stotram
Unknown
22 Verses
110%

शनि अष्टोत्तर शत नाम स्तोत्रम्

श्लोक 1

शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने ।

शरण्याय वरेण्याय सर्वेशाय नमो नमः

श्लोक 2

सौम्याय सुरवन्द्याय सुरलोकविहारिणे ।

सुखासनोपविष्टाय सुन्दराय नमो नमः

॥ 1 ॥

श्लोक 3

घनाय घनरूपाय घनाभरणधारिणे ।

घनसारविलेपाय खद्योताय नमो नमः

॥ 2 ॥

श्लोक 4

मन्दाय मन्दचेष्टाय महनीयगुणात्मने ।

मर्त्यपावनपादाय महेशाय नमो नमः

॥ 3 ॥

श्लोक 5

छायापुत्राय शर्वाय शरतूणीरधारिणे ।

चरस्थिरस्वभावाय चञ्चलाय नमो नमः

॥ 4 ॥

श्लोक 6

नीलवर्णाय नित्याय नीलाञ्जननिभाय च ।

नीलाम्बरविभूषाय निश्चलाय नमो नमः

॥ 5 ॥

श्लोक 7

वेद्याय विधिरूपाय विरोधाधारभूमये ।

भेदास्पदस्वभावाय वज्रदेहाय ते नमः

॥ 6 ॥

श्लोक 8

वैराग्यदाय वीराय वीतरोगभयाय च ।

विपत्परम्परेशाय विश्ववन्द्याय ते नमः

॥ 7 ॥

श्लोक 9

गृध्नवाहाय गूढाय कूर्माङ्गाय कुरूपिणे ।

कुत्सिताय गुणाढ्याय गोचराय नमो नमः

॥ 8 ॥

श्लोक 10

अविद्यामूलनाशाय विद्याऽविद्यास्वरूपिणे ।

आयुष्यकारणायाऽऽपदुद्धर्त्रे च नमो नमः

॥ 9 ॥

श्लोक 11

विष्णुभक्ताय वशिने विविधागमवेदिने ।

विधिस्तुत्याय वन्द्याय विरूपाक्षाय ते नमः

॥ 10 ॥

श्लोक 12

वरिष्ठाय गरिष्ठाय वज्राङ्कुशधराय च ।

वरदाऽभयहस्ताय वामनाय नमो नमः

॥ 11 ॥

श्लोक 13

ज्येष्ठापत्नीसमेताय श्रेष्ठाय मितभाषिणे ।

कष्टौघनाशकर्याय पुष्टिदाय नमो नमः

॥ 12 ॥

श्लोक 14

स्तुत्याय स्तोत्रगम्याय भक्तिवश्याय भानवे ।

भानुपुत्राय भव्याय पावनाय नमो नमः

॥ 13 ॥

श्लोक 15

धनुर्मण्डलसंस्थाय धनदाय धनुष्मते ।

तनुप्रकाशदेहाय तामसाय नमो नमः

॥ 14 ॥

श्लोक 16

अशेषजनवन्द्याय विशेषफलदायिने ।

वशीकृतजनेशाय पशूनां पतये नमः

॥ 15 ॥

श्लोक 17

खेचराय खगेशाय घननीलाम्बराय च ।

काठिन्यमानसायाऽऽर्यगणस्तुत्याय ते नमः

॥ 16 ॥

श्लोक 18

नीलच्छत्राय नित्याय निर्गुणाय गुणात्मने ।

निरामयाय निन्द्याय वन्दनीयाय ते नमः

॥ 17 ॥

श्लोक 19

धीराय दिव्यदेहाय दीनार्तिहरणाय च ।

दैन्यनाशकरायाऽऽर्यजनगण्याय ते नमः

॥ 18 ॥

श्लोक 20

क्रूराय क्रूरचेष्टाय कामक्रोधकराय च ।

कलत्रपुत्रशत्रुत्वकारणाय नमो नमः

॥ 19 ॥

श्लोक 21

परिपोषितभक्ताय परभीतिहराय च ।

भक्तसङ्घमनोऽभीष्टफलदाय नमो नमः

॥ 20 ॥

श्लोक 22

इत्थं शनैश्चरायेदं नाम्नामष्टोत्तरं शतम् ।

प्रत्यहं प्रजपन्मर्त्यो दीर्घमायुरवाप्नुयात्

॥ 21 ॥

श्लोक 23

इति श्री शनि अष्टोत्तरशतनाम स्तोत्रम् ।