Stotram - Sacred Scripture

Pitru Tarpanam

Pitru Tarpanam

Stotram
Unknown
0 Verses
110%

पितृ तर्पणं

Note: This should not be performed when one's father is alive.

Items Needed

  • Darbhas (Kusa grass)

  • Black Seseme Seeds

  • Wet raw rice

  • अर्घ्य पात्र

  • पञ्च पात्र (आचमन पात्र, उद्धरिणि, अरिवेणं)

  • गन्ध

  • आसनं

  • पवित्रं (ring made of darbha worn on the right ring finger)

यज्ञोपवीत धारण विधि

  • सव्यं – [यज्ञोपवीत worn on left shoulder to right side waist.]

  • निवीती – [यज्ञोपवीत worn like a garland in the center of the neck to stomach on the front.]

  • प्राचीनावीती/अपसव्यं – [यज्ञोपवीत worn on right shoulder to left side waist.]

शिवाय गुरवे नमः ।

शुचिः

(तलमीद नील्लनु जल्लुकोण्डि)

अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा

यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष ॥

प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं

प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

ॐ श्री महागणाधिपतये नमः ।

आचम्य

ॐ केशवाय स्वाहा ।

ॐ नारायणाय स्वाहा ।

ॐ माधवाय स्वाहा ।

ॐ गोविन्दाय नमः ।

ॐ विष्णवे नमः ।

ॐ मधुसूदनाय नमः ।

ॐ त्रिविक्रमाय नमः ।

ॐ वामनाय नमः ।

ॐ श्रीधराय नमः ।

ॐ हृषीकेशाय नमः ।

ॐ पद्मनाभाय नमः ।

ॐ दामोदराय नमः ।

ॐ सङ्कर्षणाय नमः ।

ॐ वासुदेवाय नमः ।

ॐ प्रद्युम्नाय नमः ।

ॐ अनिरुद्धाय नमः ।

ॐ पुरुषोत्तमाय नमः ।

ॐ अधोक्षजाय नमः ।

ॐ नारसिंहाय नमः ।

ॐ अच्युताय नमः ।

ॐ जनार्दनाय नमः ।

ॐ उपेन्द्राय नमः ।

ॐ हरये नमः ।

ॐ श्री कृष्णाय नमः ।

पवित्रं

ॐ पवित्रवन्तः परिवाजमासते पितैषां प्रत्नो अभि रक्षति व्रतम् ।

महस्समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् ॥

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।

अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥

पवित्रं धृत्वा ॥ [Wear Pavithram]

भूतोच्छाटनं

उत्तिष्ठन्तु भूतपिशाचाः एते भूमिभारकाः ।

एतेषामविरोधेन ब्रह्मकर्म समारभे ॥

प्राणायामं

ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः ।

ॐ जनः । ॐ तपः । ॐ सत्यम् ।

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।

धियो यो नः प्रचोदयात् ।

ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ।

Perform अनुलोम-विलोम प्राणायाम three times.

सङ्कल्पं

श्री गोविन्द गोविन्द गोविन्द । श्रीमहाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य प्रदेशे , नद्योः मध्ये पुण्यप्रदेशे समस्त देवता ब्राह्मण आचार्य हरि हर गुरु चरण सन्निधौ अस्मिन् वर्तमने व्यावहरिक चान्द्रमानेन श्री नाम संवत्सरे अयने ऋतौ मासे पक्षे तिथौ वासरे श्रीविष्णु नक्षत्रे श्रीविष्णु योगे श्रीविष्णु करण एवं गुण विशेषण विशिष्टायां पुण्यतिथौ ॥ प्राचीनावीती ॥ अस्मत् पितॄनुद्दिश्य अस्मत् पितॄणां पुण्यलोकावाप्त्यर्थं पितृ तर्पणं करिष्ये ॥ सव्यम् ॥

नमस्कारं

ईशानः पितृरूपेण महादेवो महेश्वरः ।

प्रीयतां भगवानीशः परमात्मा सदाशिवः ॥ 1

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।

नमस्स्वाहायै स्वधायै नित्यमेव नमो नमः ॥ 2

मन्त्रमध्ये क्रियामध्ये विष्णोस्स्मरण पूर्वकम् ।

यत्किञ्चित्क्रियते कर्म तत्कोटि गुणितं भवेत् ॥ 3

विष्णुर्विष्णुर्विष्णुः ॥

अर्घ्यपात्र

अर्घ्यपात्रयोः अमीगन्धाः ।

पुष्पार्था इमे अक्षताः ।

अमी कुशाः ।

॥ सव्यम् ॥ नमस्कृत्य ।

ॐ आयन्तु नः पितरस्सोम्यासोग्निष्वात्ताः पथिभिर्देव यानैः ।

अस्मिन् यज्ञे स्वधया मदं त्वधि बृवन्तु ते अवन्त्व स्मान् ॥

इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः ।

ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥

पितृदेवताभ्यो नमः ।

ॐ आगच्छन्तु मे पितर इमं गृह्णन्तु जलाञ्जलिम् ।

॥ प्राचीनावीती ॥

सकलोपचारार्थे तिलान् समर्पयामि ।

पित्रादि तर्पणं

॥ प्राचीनावीती ॥

अस्मत् पितरं (गोत्रं) गोत्रं (नाम) शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् पितामहं गोत्रं शर्माणं रुद्ररूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् प्रपितामहं गोत्रं शर्माणं आदित्यरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातरं गोत्रां दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् पितामहीं गोत्रां दां रुद्ररूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् प्रपितामहीं गोत्रां दां आदित्यरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् सापत्नीमातरं गोत्रां दां वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातामहं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातुः पितामहं गोत्रं शर्माणं रुद्ररूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातुः प्रपितामहं गोत्रं शर्माणं आदित्यरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातामहीं गोत्रां दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातुः पितामहीं गोत्रां दां रुद्ररूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातुः प्रपितामहीं गोत्रां दां आदित्यरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् आत्मपत्नीं गोत्रां दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् सुतं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् भ्रातरं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् ज्येष्ठ/कनिष्ठ पितृव्यं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातुलं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् दुहितरं गोत्रां दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् भगिनीं गोत्रां दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् दौहित्रं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् भगिनेयकं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् पितृष्वसारं गोत्रां दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् ज्येष्ठ/कनिष्ठ मातृष्वसारं गोत्रां दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् जामातरं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् भावुकं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् स्नुषां गोत्रं दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् श्वशुरं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् श्वश्रूं गोत्रां दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् स्यालकं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् स्वामिनं/आचार्यं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् गुरुं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् रिक्थिनं गोत्रं शर्माणं वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

पितृदेवताभ्यो नमः ।

सुप्रीतो भवतु ।

कुशोदकं

॥ प्राचीनावीती ॥

एषान्नमाता न पिता न बन्धुः नान्य गोत्रिणः ।

ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैः कुशोदकैः ॥

तृप्यत तृप्यत तृप्यत तृप्यत तृप्यत ।

निष्पीडनोदकं

॥ निवीती ॥

येके चास्मत्कुलेजाताः अपुत्राः गोत्रिणो मृताः ।

ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।

समर्पणं

॥ सव्यम् ॥

कायेन वाचा मनसैन्द्रियैर्वा

बुद्ध्यात्मना वा प्रकृतेस्स्वभावात् ।

करोमि यद्यत्सकलं परस्मै

नारायणायेति समर्पयामि ॥

नमो ब्रह्मण्यदेवाय गो ब्राह्मण हिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

पवित्रं विसृज्य ।

ॐ शान्तिः शान्तिः शान्तिः ।

ॐ तत्सत् ब्रह्मार्पणमस्तु ।

About This Stotram

Overview

Pitru Tarpanam is a ritual procedure in which oblations of water (with sesame seeds, darbha grass, and rice) are offered to one's deceased ancestors (Pitrus) while reciting specific mantras. It is performed as a fulfillment of pitru-rina — the debt owed to one's ancestors — and represents one of the five great obligations (pancha maha yajna) recognized in Hindu dharmic practice. The text is not a stotram but a mantra-and-procedure guide drawn from Vedic and Puranic sources.

What are the benefits of chanting Pitru Tarpanam?

  • Sustains the ancestral spirits through ritual nourishment
  • Removes ancestral curses and negative karmic influence (pitru dosha)
  • Fulfills the practitioner's obligatory duty toward departed family members
  • Promotes prosperity, lineage continuity, and peace for both living and deceased

When is the best time to recite this?

Pitru Tarpanam is performed on Amavasya (new moon day) each month, throughout the Pitru Paksha fortnight, and on the death anniversaries (tithi) of specific ancestors. It is not performed when the father or paternal grandfather is still living, as the rite is specifically for those who have departed.

What is the historical and traditional background?

The obligation to perform tarpanam for ancestors is grounded in Vedic texts including the Rigveda, Atharva Veda, and the associated Brahmanas and Aranyakas. It is elaborated in detail in the Grihya Sutras, Dharma Shastras, and Puranas such as the Garuda Purana and Agni Purana. The specific mantras, materials (sesame, darbha, water), and procedural sequences vary across Vedic shakhas and regional traditions. The compiled text as presented draws from these multiple sources rather than being a single authored composition.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Pitru Suktam — the Rigvedic hymn (10.15) to the Pitrus that forms the Vedic textual foundation for tarpanam practice
  • Pitru Stotram (Garuda Puranam) — a Puranic hymn to the Pitrus recited alongside or in conjunction with tarpanam ceremonies