Suktam - Sacred Scripture

Shraddha Suktam

Shraddha Suktam

Suktam
Unknown
0 Verses
110%

श्रद्धा सूक्तम्

श्लोक 1

(तै. ब्रा. 2.8.8.6)

श्र॒द्धया॒-ऽग्नि-स्समि॑ध्यते ।

श्र॒द्धया॑ विन्दते ह॒विः ।

श्र॒द्धा-म्भग॑स्य मू॒र्धनि॑ ।

वच॒सा-ऽऽवे॑दयामसि ।

प्रि॒यग्ग् श्र॑द्धे॒ दद॑तः ।

प्रि॒यग्ग् श्र॑द्धे॒ दिदा॑सतः ।

प्रि॒य-म्भो॒जेषु॒ यज्व॑सु ॥

इ॒द-म्म॑ उदि॒त-ङ्कृ॑धि ।

यथा॑ दे॒वा असु॑रेषु ।

श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।

ए॒व-म्भो॒जेषु॒ यज्व॑सु ।

अ॒स्माक॑मुदि॒त-ङ्कृ॑धि ।

श्र॒द्धा-न्दे॑वा॒ यज॑मानाः ।

वा॒युगो॑पा॒ उपा॑सते ।

श्र॒द्धाग्ं हृ॑द॒य्य॑या-ऽऽकू᳚त्या ।

श्र॒द्धया॑ हूयते ह॒विः ।

श्र॒द्धा-म्प्रा॒तर्​ह॑वामहे ॥

श्र॒द्धा-म्म॒ध्यन्दि॑न॒-म्परि॑ ।

श्र॒द्धाग्ं सूर्य॑स्य नि॒मृचि॑ ।

श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚ ।

श्र॒द्धा दे॒वानधि॑वस्ते ।

श्र॒द्धा विश्व॑मि॒द-ञ्जग॑त् ।

श्र॒द्धा-ङ्काम॑स्य मा॒तरम्᳚ ।

ह॒विषा॑ वर्धयामसि ।