Pitru Stotram 3 (Brihaddharma Puranam)
Pitru Stotram 3 (Brihaddharma Puranam)
पितृ स्तोत्रं 2 (बृहद्धर्म पुराणम्)
श्लोक 1
ब्रह्मोवाच ।
नमः पित्रे जन्मदात्रे सर्वदेवमयाय च ।
सुखदाय प्रसन्नाय सुप्रीताय महात्मने
श्लोक 2
सर्वयज्ञस्वरूपाय स्वर्गाय परमेष्ठिने ।
सर्वतीर्थावलोकाय करुणासागराय च
॥ 1 ॥
श्लोक 3
नमः सदाऽऽशुतोषाय शिवरूपाय ते नमः ।
सदाऽपराधक्षमिणे सुखाय सुखदाय च
॥ 2 ॥
श्लोक 4
दुर्लभं मानुषमिदं येन लब्धं मया वपुः ।
सम्भावनीयं धर्मार्थे तस्मै पित्रे नमो नमः
॥ 3 ॥
श्लोक 5
तीर्थस्नानतपोहोमजपादीन् यस्य दर्शनम् ।
महागुरोश्च गुरवे तस्मै पित्रे नमो नमः
॥ 4 ॥
श्लोक 6
यस्य प्रणाम स्तवनात् कोटिशः पितृतर्पणम् ।
अश्वमेधशतैस्तुल्यं तस्मै पित्रे नमो नमः
॥ 5 ॥
श्लोक 7
इदं स्तोत्रं पितृः पुण्यं यः पठेत् प्रयतो नरः ।
प्रत्यहं प्रातरुत्थाय पितृश्राद्धदिनेऽपि च
॥ 6 ॥
श्लोक 8
स्वजन्मदिवसे साक्षात् पितुरग्रे स्थितोऽपि वा ।
न तस्य दुर्लभं किञ्चित् सर्वज्ञत्वादि वाञ्छितम्
॥ 7 ॥
श्लोक 9
नानापकर्म कृत्वाऽपि यः स्तौति पितरं सुतः ।
स धृवं प्रविधायैव प्रायश्चित्तं सुखी भवेत् ।
पितृप्रीतिकरैर्नित्यं सर्वकर्माण्यथार्हति
॥ 8 ॥
श्लोक 10
इति बृहद्धर्मपुराणान्तर्गत ब्रह्मकृत पितृ स्तोत्रम् ।
