Ashtakam - Sacred Scripture

Panduranga Ashtakam

Panduranga Ashtakam

Ashtakam
Unknown
9 Verses
110%

श्री पाण्डुरङ्ग अष्टकम्

श्लोक 1

महायोगपीठे तटे भीमरथ्या

वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।

समागत्य तिष्ठन्तमानन्दकन्दं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्

श्लोक 2

तटिद्वाससं नीलमेघावभासं

रमामन्दिरं सुन्दरं चित्प्रकाशम् ।

वरं त्विष्टकायां समन्यस्तपादं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्

॥ 1 ॥

श्लोक 3

प्रमाणं भवाब्धेरिदं मामकानां

नितम्बः कराभ्यां धृतो येन तस्मात् ।

विधातुर्वसत्यै धृतो नाभिकोशः

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्

॥ 2 ॥

श्लोक 4

स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे

श्रिया जुष्टकेयूरकं श्रीनिवासम् ।

शिवं शान्तमीड्यं वरं लोकपालं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्

॥ 3 ॥

श्लोक 5

शरच्चन्द्रबिम्बाननं चारुहासं

लसत्कुण्डलाक्रान्तगण्डस्थलान्तम् ।

जपारागबिम्बाधरं कञ्जनेत्रं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्

॥ 4 ॥

श्लोक 6

किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागं

सुरैरर्चितं दिव्यरत्नैरनर्घैः ।

त्रिभङ्गाकृतिं बर्हमाल्यावतंसं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्

॥ 5 ॥

श्लोक 7

विभुं वेणुनादं चरन्तं दुरन्तं

स्वयं लीलया गोपवेषं दधानम् ।

गवां बृन्दकानन्ददं चारुहासं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्

॥ 6 ॥

श्लोक 8

अजं रुक्मिणीप्राणसञ्जीवनं तं

परं धाम कैवल्यमेकं तुरीयम् ।

प्रसन्नं प्रपन्नार्तिहं देवदेवं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्

॥ 7 ॥

श्लोक 9

स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये

पठन्त्येकचित्तेन भक्त्या च नित्यम् ।

भवाम्भोनिधिं तेऽपि तीर्त्वान्तकाले

हरेरालयं शाश्वतं प्राप्नुवन्ति

॥ 8 ॥

श्लोक 10

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छङ्करभगवत्पादाचार्य विरचितं श्री पाण्डुरङ्गाष्टकम् ।