Ashtakam - Sacred Scripture

Sri Radha Krishna Ashtakam

Sri Radha Krishna Ashtakam

Ashtakam
Krishna
9 Verses
110%

श्री राधा कृष्ण अष्टकम्

श्लोक 1

यः श्रीगोवर्धनाद्रिं सकलसुरपतींस्तत्रगोगोपबृन्दं

स्वीयं संरक्षितुं चेत्यमरसुखकरं मोहयन् सन्दधार ।

तन्मानं खण्डयित्वा विजितरिपुकुलो नीलधाराधराभः

कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव

श्लोक 2

यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मन्त्रिवर्यान्

किं वा पूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच ।

आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन्सर्वकामान्

कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव

॥ 1 ॥

श्लोक 3

येन प्रोद्यत्प्रतापा नृपतिकुलभवाः पाण्डवाः कौरवाब्धिं

तीर्त्वा पारं तदीयं जगदखिलनृणां दुस्तरञ्चेति जग्मुः ।

तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः

कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव

॥ 2 ॥

श्लोक 4

यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि-

र्दत्तं तद्भावपूर्तौ विनिहितहृदयस्सत्यमेवं तिरोधात् ।

मुक्तागुञ्जावलीभिः प्रचुरतमरुचिः कुण्डलाक्रान्तगण्डः

कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव

॥ 3 ॥

श्लोक 5

यस्माद्विश्वाभिरामादिह जननविधौ सर्वनन्दादिगोपाः

संसारार्तेर्विमुक्ताः सकलसुखकराः सम्पदः प्रापुरेव ।

इत्थं पूर्णेन्दुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवन्तः

कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव

॥ 4 ॥

श्लोक 6

यस्य श्रीनन्दसूनोः व्रजयुवतिजनाश्चागता भर्तृपुत्रां-

स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे ।

रन्तुं रासादिलीला मनसिजदलिता वेणुनादं च रम्यं

कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव

॥ 5 ॥

श्लोक 7

यस्मिन् दृष्टे समस्ते जगति युवतयः प्राणनाथव्रताया-

स्ता अप्येवं हि नूनं किमपि च हृदये कामभावं दधत्यः ।

तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिम्बस्वरूपाः

कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव

॥ 6 ॥

श्लोक 8

यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो

मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान् ।

हत्वा वत्सप्रलम्बद्विविदबकखरान्गोपबृन्दं जुगोप

कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव

॥ 7 ॥

श्लोक 9

कृष्णाराधाष्टकं प्रातरुत्थाय प्रपठेन्नरः ।

य एवं सर्वदा नूनं स प्राप्नोति परां गतिम्

॥ 8 ॥

श्लोक 10

इति श्रीरघुनाथचार्य विरचितं श्रीराधाकृष्णाष्टकम् ।