Chaurashtakam (Sri Chauragraganya Purushashtakam)
Chaurashtakam (Sri Chauragraganya Purushashtakam)
चौराष्टकम् (श्री चौराग्रगण्य पुरुषाष्टकम्)
श्लोक 1
व्रजे प्रसिद्धं नवनीतचौरं
गोपाङ्गनानां च दुकूलचौरम् ।
अनेकजन्मार्जितपापचौरं
चौराग्रगण्यं पुरुषं नमामि
श्लोक 2
श्रीराधिकाया हृदयस्य चौरं
नवाम्बुदश्यामलकान्तिचौरम् ।
पदाश्रितानां च समस्तचौरं
चौराग्रगण्यं पुरुषं नमामि
॥ 1॥
श्लोक 3
अकिञ्चनीकृत्य पदाश्रितं यः
करोति भिक्षुं पथि गेहहीनम् ।
केनाप्यहो भीषणचौर ईदृग्-
दृष्टःश्रुतो वा न जगत्त्रयेऽपि
॥ 2॥
श्लोक 4
यदीय नामापि हरत्यशेषं
गिरिप्रसारान् अपि पापराशीन् ।
आश्चर्यरूपो ननु चौर ईदृग्
दृष्टः श्रुतो वा न मया कदापि
॥ 3॥
श्लोक 5
धनं च मानं च तथेन्द्रियाणि
प्राणांश्च हृत्वा मम सर्वमेव ।
पलायसे कुत्र धृतोऽद्य चौर
त्वं भक्तिदाम्नासि मया निरुद्धः
॥ 4॥
श्लोक 6
छिनत्सि घोरं यमपाशबन्धं
भिनत्सि भीमं भवपाशबन्धम् ।
छिनत्सि सर्वस्य समस्तबन्धं
नैवात्मनो भक्तकृतं तु बन्धम्
॥ 5॥
श्लोक 7
मन्मानसे तामसराशिघोरे
कारागृहे दुःखमये निबद्धः ।
लभस्व हे चौर! हरे! चिराय
स्वचौर्यदोषोचितमेव दण्डम्
॥ 6॥
श्लोक 8
कारागृहे वस सदा हृदये मदीये
मद्भक्तिपाशदृढबन्धननिश्चलः सन् ।
त्वां कृष्ण हे! प्रलयकोटिशतान्तरेऽपि
सर्वस्वचौर! हृदयान् न हि मोचयामि
॥ 7॥
श्लोक 9
इति श्रीबिल्वमङ्गलठाकूरविरचितं चौराष्टकं सम्पूर्णम् ।
चौरग्रगण्य पुरुषाष्टकम् ।
