Kavacham - Sacred Scripture

Nava Graha Kavacham

Nava Graha Kavacham

Kavacham
Unknown
10 Verses
110%

नवग्रह कवचम्

श्लोक 1

शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः ।

मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः

श्लोक 2

बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः ।

जठरं च शनिः पातु जिह्वां मे दितिनन्दनः

॥ 1 ॥

श्लोक 3

पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च ।

तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा

॥ 2 ॥

श्लोक 4

अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च ।

गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः

॥ 3 ॥

श्लोक 5

अणिमादीनि सर्वाणि लभते यः पठेद् धृवम् ।

एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः

॥ 4 ॥

श्लोक 6

स चिरायुः सुखी पुत्री रणे च विजयी भवेत् ।

अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात्

॥ 5 ॥

श्लोक 7

दारार्थी लभते भार्यां सुरूपां सुमनोहराम् ।

रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात्

॥ 6 ॥

श्लोक 8

जले स्थले चान्तरिक्षे कारागारे विशेषतः ।

यः करे धारयेन्नित्यं भयं तस्य न विद्यते

॥ 7 ॥

श्लोक 9

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।

सर्वपापैः प्रमुच्येत कवचस्य च धारणात्

॥ 8 ॥

श्लोक 10

नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता ।

काकवन्ध्या जन्मवन्ध्या मृतवत्सा च या भवेत् ।

बह्वपत्या जीववत्सा कवचस्य प्रसादतः

॥ 9 ॥

श्लोक 11

इति ग्रहयामले उत्तरखण्डे नवग्रह कवचं समाप्तम् ।