Stotram - Sacred Scripture

Nava Graha Peedahara Stotram

Nava Graha Peedahara Stotram

Stotram
Unknown
9 Verses
110%

नवग्रह पीडाहर स्तोत्रम्

श्लोक 1

ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।

विषमस्थानसम्भूतां पीडां हरतु मे रविः

श्लोक 2

रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।

विषमस्थानसम्भूतां पीडां हरतु मे विधुः

॥ 1 ॥

श्लोक 3

भूमिपुत्रो महातेजा जगतां भयकृत् सदा ।

वृष्टिकृद्वृष्टिहर्ता च पीडां हरतु मे कुजः

॥ 2 ॥

श्लोक 4

उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।

सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः

॥ 3 ॥

श्लोक 5

देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।

अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः

॥ 4 ॥

श्लोक 6

दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।

प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः

॥ 5 ॥

श्लोक 7

सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।

मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः

॥ 6 ॥

श्लोक 8

महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।

अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी

॥ 7 ॥

श्लोक 9

अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।

उत्पातरूपो जगतां पीडां हरतु मे तमः

॥ 8 ॥

श्लोक 10