Kavacham - Sacred Scripture

Narayana Kavacham

Narayana Kavacham

Kavacham
Narayana
42 Verses
110%

नारायण कवचम्

श्लोक 1

न्यासः

अङ्गन्यासः

ॐ ॐ पादयोः नमः ।

ॐ नं जानुनोः नमः ।

ॐ मों ऊर्वोः नमः ।

ॐ नां उदरे नमः ।

ॐ रां हृदि नमः ।

ॐ यं उरसि नमः ।

ॐ णां मुखे नमः ।

ॐ यं शिरसि नमः ।

करन्यासः

ॐ ॐ दक्षिणतर्जन्यां नमः ।

ॐ नं दक्षिणमध्यमायां नमः ।

ॐ मों दक्षिणानामिकायां नमः ।

ॐ भं दक्षिणकनिष्ठिकायां नमः ।

ॐ गं वामकनिष्ठिकायां नमः ।

ॐ वं वामानिकायां नमः ।

ॐ तें वाममध्यमायां नमः ।

ॐ वां वामतर्जन्यां नमः ।

ॐ सुं दक्षिणाङ्गुष्ठोर्ध्वपर्वणि नमः ।

ॐ दें दक्षिणाङ्गुष्ठाधः पर्वणि नमः ।

ॐ वां वामाङ्गुष्ठोर्ध्वपर्वणि नमः ।

ॐ यं वामाङ्गुष्ठाधः पर्वणि नमः ।

विष्णुषडक्षरन्यासः

ॐ ॐ हृदये नमः ।

ॐ विं मूर्ध्नै नमः ।

ॐ षं भ्रुर्वोर्मध्ये नमः ।

ॐ णं शिखायां नमः ।

ॐ वें नेत्रयोः नमः ।

ॐ नं सर्वसन्धिषु नमः ।

ॐ मः प्राच्यां अस्त्राय फट् ।

ॐ मः आग्नेय्यां अस्त्राय फट् ।

ॐ मः दक्षिणस्यां अस्त्राय फट् ।

ॐ मः नैऋत्ये अस्त्राय फट् ।

ॐ मः प्रतीच्यां अस्त्राय फट् ।

ॐ मः वायव्ये अस्त्राय फट् ।

ॐ मः उदीच्यां अस्त्राय फट् ।

ॐ मः ऐशान्यां अस्त्राय फट् ।

ॐ मः ऊर्ध्वायां अस्त्राय फट् ।

ॐ मः अधरायां अस्त्राय फट् ।

श्री हरिः

अथ श्रीनारायणकवच

राजोवाच

यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्

श्लोक 2

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।

यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे

॥ 1 ॥

श्लोक 3

श्री शुक उवाच

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्यं वर्माह तदिहैकमनाः शृणु

॥ 2 ॥

श्लोक 4

श्रीविश्वरूप उवाच

धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।

कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः

॥ 3 ॥

श्लोक 5

नारायणमयं वर्म सन्नह्येद्भय आगते ।

दैवभूतात्मकर्मभ्यो नारायणमयः पुमान्

॥ 4 ॥

श्लोक 6

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ।

मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत्

॥ 5 ॥

श्लोक 7

ॐ नमो नारायणायेति विपर्ययमथापि वा ।

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया

॥ 6 ॥

श्लोक 8

प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ।

न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि

॥ 7 ॥

श्लोक 9

षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ।

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु

॥ 8 ॥

श्लोक 10

मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ।

सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत्

॥ 9 ॥

श्लोक 11

ॐ विष्णवे नमः ॥

इत्यात्मानं परं ध्यायेद्ध्येयं षट्छक्तिभिर्युतम् ।

विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत्

॥ 10 ॥

श्लोक 12

ॐ हरिर्विदध्यान्मम सर्वरक्षां

न्यस्ताङ्घ्रिपद्मः पतगेन्द्र पृष्ठे ।

दरारिचर्मासिगदेषुचाप-

-पाशान्दधानोऽष्टगुणोऽष्टबाहुः

॥ 11 ॥

श्लोक 13

जलेषु मां रक्षतु मत्स्यमूर्ति-

-र्यादोगणेभ्यो वरुणस्य पाशात् ।

स्थलेषु मायावटुवामनोऽव्या-

-त्त्रिविक्रमः खेऽवतु विश्वरूपः

॥ 12 ॥

श्लोक 14

दुर्गेष्वटव्याजिमुखादिषु प्रभुः

पायान्नृसिंहोऽसुरयूथपारिः ।

विमुञ्चतो यस्य महाट्टहासं

दिशो विनेदुर्न्यपतंश्च गर्भाः

॥ 13 ॥

श्लोक 15

रक्षत्वसौ माध्वनि यज्ञकल्पः

स्वदंष्ट्रयोन्नीतधरो वराहः ।

रामोऽद्रिकूटेष्वथ विप्रवासे

सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान्

॥ 14 ॥

श्लोक 16

मामुग्रधर्मादखिलात्प्रमादा-

-न्नारायणः पातु नरश्च हासात् ।

दत्तस्त्वयोगादथ योगनाथः

पायाद्गुणेशः कपिलः कर्मबन्धात्

॥ 15 ॥

श्लोक 17

सनत्कुमारोऽवतु कामदेवा-

-द्धयाननो मां पथि देवहेलनात् ।

देवर्षिवर्यः पुरुषार्चनान्तरा-

-त्कूर्मो हरिर्मां निरयादशेषात्

॥ 16 ॥

श्लोक 18

धन्वन्तरिर्भगवान्पात्वपथ्या-

-द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवताज्जनान्ता-

-द्बलो गणात्क्रोधवशादहीन्द्रः

॥ 17 ॥

श्लोक 19

द्वैपायनो भगवानप्रबोधा-

-द्बुद्धस्तु पाषण्डगणात्प्रमादात् ।

कल्किः कलेः कालमलात्प्रपातु

धर्मावनायोरुकृतावतारः

॥ 18 ॥

श्लोक 20

मां केशवो गदया प्रातरव्या-

-द्गोविन्द आसङ्गवमात्तवेणुः ।

नारायणः प्राह्ण उदात्तशक्ति-

-र्मध्यन्दिने विष्णुररीन्द्रपाणिः

॥ 19 ॥

श्लोक 21

देवोऽपराह्णे मधुहोग्रधन्वा

सायं त्रिधामावतु माधवो माम् ।

दोषे हृषीकेश उतार्धरात्रे

निशीथ एकोऽवतु पद्मनाभः

॥ 20 ॥

श्लोक 22

श्रीवत्सधामाऽपररात्र ईशः

प्रत्युष ईशोऽसिधरो जनार्दनः ।

दामोदरोऽव्यादनुसन्ध्यं प्रभाते

विश्वेश्वरो भगवान्कालमूर्तिः

॥ 21 ॥

श्लोक 23

चक्रं युगान्तानलतिग्मनेमि

भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्यरिसैन्यमाशु

कक्षं यथा वातसखो हुताशः

॥ 22 ॥

श्लोक 24

गदेऽशनिस्पर्शनविस्फुलिङ्गे

निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।

कूष्माण्डवैनायकयक्षरक्षो

भूतग्रहांश्चूर्णय चूर्णयारीन्

॥ 23 ॥

श्लोक 25

त्वं यातुधानप्रमथप्रेतमातृ-

-पिशाचविप्रग्रहघोरदृष्टीन् ।

दरेन्द्र विद्रावय कृष्णपूरितो

भीमस्वनोऽरेर्हृदयानि कम्पयन्

॥ 24 ॥

श्लोक 26

त्वं तिग्मधारासिवरारिसैन्य-

-मीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्षूंषि चर्मन् शतचन्द्र छादय

द्विषामघोनां हर पापचक्षुषाम्

॥ 25 ॥

श्लोक 27

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च

॥ 26 ॥

श्लोक 28

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।

प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः

॥ 27 ॥

श्लोक 29

गरुडो भगवान् स्तोत्रस्तोमश्छन्दोमयः प्रभुः ।

रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः

॥ 28 ॥

श्लोक 30

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।

बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः

॥ 29 ॥

श्लोक 31

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।

सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः

॥ 30 ॥

श्लोक 32

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।

भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया

॥ 31 ॥

श्लोक 33

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।

पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः

॥ 32 ॥

श्लोक 34

विदिक्षु दिक्षूर्ध्वमधः समन्ता-

-दन्तर्बहिर्भगवान्नारसिंहः ।

प्रहापयँल्लोकभयं स्वनेन

स्वतेजसा ग्रस्तसमस्ततेजाः

॥ 33 ॥

श्लोक 35

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।

विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान्

॥ 34 ॥

श्लोक 36

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।

पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते

॥ 35 ॥

श्लोक 37

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।

राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित्

॥ 36 ॥

श्लोक 38

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।

योगधारणया स्वाङ्गं जहौ स मरुधन्वनि

॥ 37 ॥

श्लोक 39

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः

॥ 38 ॥

श्लोक 40

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्छिराः ।

स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।

प्राप्य प्राच्यां सरस्वत्यां स्नात्वा धाम स्वमन्वगात्

॥ 39 ॥

श्लोक 41

श्री शुक उवाच

य इदं शृणुयात्काले यो धारयति चादृतः ।

तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात्

॥ 40 ॥

श्लोक 42

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।

त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान्

॥ 41 ॥

श्लोक 43

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे नारायणवर्मोपदेशो नामाष्टमोऽध्यायः ।