Stotram - Sacred Scripture

Narayana Upanishad

Narayana Upanishad

Stotram
Narayana
0 Verses
110%

नारायण उपनिषद्

श्लोक 1

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै ।

ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

ॐ अथ पुरुषो ह वै नारायणो-ऽकामयत प्रजा-स्सृ॑जेये॒ति ।

ना॒रा॒य॒णात्प्रा॑णो जा॒यते । मन-स्सर्वेन्द्रि॑याणि॒ च ।

खं-वाँयुर्ज्योतिरापः पृथिवी विश्व॑स्य धा॒रिणी ।

ना॒रा॒य॒णाद्ब्र॑ह्मा जा॒यते ।

ना॒रा॒य॒णाद्रु॑द्रो जा॒यते ।

ना॒रा॒य॒णादि॑न्द्रो जा॒यते ।

ना॒रा॒य॒णात्प्रजापतयः प्र॑जाय॒न्ते ।

ना॒रा॒य॒णाद्द्वादशादित्या रुद्रा वसवस्सर्वाणि च छ॑न्दाग्ं॒सि ।

ना॒रा॒य॒णादेव समु॑त्पद्य॒न्ते ।

ना॒रा॒य॒णे प्र॑वर्त॒न्ते ।

ना॒रा॒य॒णे प्र॑लीय॒न्ते ॥

ओम् । अथ नित्यो ना॑राय॒णः । ब्र॒ह्मा ना॑राय॒णः ।

शि॒वश्च॑ नाराय॒णः । श॒क्रश्च॑ नाराय॒णः ।

द्या॒वा॒पृ॒थि॒व्यौ च॑ नाराय॒णः । का॒लश्च॑ नाराय॒णः ।

दि॒शश्च॑ नाराय॒णः । ऊ॒र्ध्वश्च॑ नाराय॒णः ।

अ॒धश्च॑ नाराय॒णः । अ॒न्त॒र्ब॒हिश्च॑ नाराय॒णः ।

नारायण एवे॑दग्ं स॒र्वम् ।

यद्भू॒तं-यँच्च॒ भव्यम्᳚ ।

निष्कलो निरञ्जनो निर्विकल्पो निराख्यात-श्शुद्धो देव

एको॑ नाराय॒णः । न द्वि॒तीयो᳚स्ति॒ कश्चि॑त् ।

य ए॑वं-वेँ॒द ।

स विष्णुरेव भवति स विष्णुरे॑व भ॒वति ॥

ओमित्य॑ग्रे व्या॒हरेत् । नम इ॑ति प॒श्चात् ।

ना॒रा॒य॒णायेत्यु॑परि॒ष्टात् ।

ओमि॑त्येका॒क्षरम् । नम इति॑ द्वे अ॒क्षरे ।

ना॒रा॒य॒णायेति पञ्चा᳚क्षरा॒णि ।

एतद्वै नारायणस्याष्टाक्ष॑र-म्प॒दम् ।

यो ह वै नारायणस्याष्टाक्षर-म्पद॑मध्ये॒ति ।

अनपब्रवस्सर्वमा॑युरे॒ति ।

विन्दते प्रा॑जाप॒त्यग्ं रायस्पोष॑-ङ्गौप॒त्यम् ।

ततो-ऽमृतत्वमश्नुते ततो-ऽमृतत्वमश्नु॑त इ॒ति ।

य ए॑वं-वेँ॒द ॥

प्रत्यगानन्द-म्ब्रह्म पुरुष-म्प्रणव॑स्वरू॒पम् ।

अकार उकार मका॑र इ॒ति ।

तानेकधा समभरत्तदेत॑दोमि॒ति ।

यमुक्त्वा॑ मुच्य॑ते यो॒गी॒ ज॒न्म॒संसा॑रब॒न्धनात् ।

ओ-न्नमो नारायणायेति म॑न्त्रोपा॒सकः ।

वैकुण्ठभुवनलोक॑-ङ्गमि॒ष्यति ।

तदिद-म्पर-म्पुण्डरीकं-विँ॑ज्ञान॒घनम् ।

तस्मात्तदिदा॑वन्मा॒त्रम् ।

ब्रह्मण्यो देव॑कीपु॒त्रो॒ ब्रह्मण्यो म॑धुसू॒दनोम् ।

सर्वभूतस्थमेक॑-न्नारा॒यणम् ।

कारणरूपमकार प॑रब्र॒ह्मोम् ।

एतदथर्व शिरो॑यो-ऽधी॒ते प्रा॒तर॑धीया॒नो॒ रात्रिकृत-म्पाप॑-न्नाश॒यति ।

सा॒यम॑धीया॒नो॒ दिवसकृत-म्पाप॑-न्नाश॒यति ।

माध्यन्दिनमादित्याभिमुखो॑-ऽधीया॒नः॒ पञ्चपातकोपपातका᳚त्प्रमु॒च्यते ।

सर्व वेद पारायण पु॑ण्यं-लँ॒भते ।

नारायणसायुज्यम॑वाप्नो॒ति॒ नारायण सायुज्यम॑वाप्नो॒ति ।

य ए॑वं-वेँ॒द । इत्यु॑प॒निष॑त् ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै ।

ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

नारायण उपनिषद् | (Narayana Upanishad) Lyrics | Vedic Tithi