Ashtakam - Sacred Scripture

Harivarasanam (Hariharatmaja Ashtakam)

Harivarasanam (Hariharatmaja Ashtakam)

Ashtakam
Unknown
8 Verses
110%

हरिवरासनम् (हरिहरात्मज अष्टकम्)

श्लोक 1

हरिवरासनं विश्वमोहनम्

हरिदधीश्वरं आराध्यपादुकम् ।

अरिविमर्दनं नित्यनर्तनम्

हरिहरात्मजं देवमाश्रये

श्लोक 2

शरणकीर्तनं भक्तमानसम्

भरणलोलुपं नर्तनालसम् ।

अरुणभासुरं भूतनायकम्

हरिहरात्मजं देवमाश्रये

॥ 1 ॥

श्लोक 3

प्रणयसत्यकं प्राणनायकम्

प्रणतकल्पकं सुप्रभाञ्चितम् ।

प्रणवमन्दिरं कीर्तनप्रियम्

हरिहरात्मजं देवमाश्रये

॥ 2 ॥

श्लोक 4

तुरगवाहनं सुन्दराननम्

वरगदायुधं वेदवर्णितम् ।

गुरुकृपाकरं कीर्तनप्रियम्

हरिहरात्मजं देवमाश्रये

॥ 3 ॥

श्लोक 5

त्रिभुवनार्चितं देवतात्मकम्

त्रिनयनप्रभुं दिव्यदेशिकम् ।

त्रिदशपूजितं चिन्तितप्रदम्

हरिहरात्मजं देवमाश्रये

॥ 4 ॥

श्लोक 6

भवभयापहं भावुकावकम्

भुवनमोहनं भूतिभूषणम् ।

धवलवाहनं दिव्यवारणम्

हरिहरात्मजं देवमाश्रये

॥ 5 ॥

श्लोक 7

कलमृदुस्मितं सुन्दराननम्

कलभकोमलं गात्रमोहनम् ।

कलभकेसरीवाजिवाहनम्

हरिहरात्मजं देवमाश्रये

॥ 6 ॥

श्लोक 8

श्रितजनप्रियं चिन्तितप्रदम्

श्रुतिविभूषणं साधुजीवनम् ।

श्रुतिमनोहरं गीतलालसम्

हरिहरात्मजं देवमाश्रये

॥ 7 ॥

श्लोक 9

शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ।

शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ॥