Stotram - Sacred Scripture

Ayyappa Stotram

Ayyappa Stotram

Stotram
Unknown
5 Verses
110%

अय्यप्प स्तोत्रम्

श्लोक 1

अरुणोदयसङ्काशं नीलकुण्डलधारणम् ।

नीलाम्बरधरं देवं वन्देऽहं ब्रह्मनन्दनम्

श्लोक 2

चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [चिन्मुद्रां दक्षिणकरे]

विलसत्कुण्डलधरं वन्देऽहं विष्णुनन्दनम्

॥ 1 ॥

श्लोक 3

व्याघ्रारूढं रक्तनेत्रं स्वर्णमालाविभूषणम् ।

वीरापट्टधरं देवं वन्देऽहं शम्भुनन्दनम्

॥ 2 ॥

श्लोक 4

किङ्किण्योड्यान भूतेशं पूर्णचन्द्रनिभाननम् ।

किरातरूप शास्तारं वन्देऽहं पाण्ड्यनन्दनम्

॥ 3 ॥

श्लोक 5

भूतभेतालसंसेव्यं काञ्चनाद्रिनिवासितम् ।

मणिकण्ठमिति ख्यातं वन्देऽहं शक्तिनन्दनम्

॥ 4 ॥

श्लोक 6

इति श्री अय्यप्प स्तोत्रम् ।