Ayyappa Pancha Ratnam
Ayyappa Pancha Ratnam
Stotram
Unknown
5 Verses
110%
अय्यप्प पञ्च रत्नम्
श्लोक 1
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम्
श्लोक 2
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम्
॥ 1 ॥
श्लोक 3
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम्
॥ 2 ॥
श्लोक 4
अस्मत्कुलेश्वरं देवम्-अस्मच्छत्रु विनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम्
॥ 3 ॥
श्लोक 5
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम्
॥ 4 ॥
श्लोक 6
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥
