Stotram - Sacred Scripture

Ayyappa Ashtottara Sata Nama Stotram

Ayyappa Ashtottara Sata Nama Stotram

Stotram
Unknown
15 Verses
110%

अय्यप्प अष्टोत्तर शत नाम स्तोत्रम्

श्लोक 1

महाशास्ता महादेवो महादेवसुतोऽव्ययः ।

लोककर्ता लोकभर्ता लोकहर्ता परात्परः

श्लोक 2

त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।

मन्त्रवेदी महावेदी मारुतो जगदीश्वरः

॥ 1 ॥

श्लोक 3

लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।

सिंहारूढो गजारूढो हयारूढो महेश्वरः

॥ 2 ॥

श्लोक 4

नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।

नानारूपधरो वीरो नानाप्राणिनिषेवितः

॥ 3 ॥

श्लोक 5

भूतेशो भूतितो भृत्यो भुजङ्गाभरणोज्वलः ।

इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः

॥ 4 ॥

श्लोक 6

मायादेवीसुतो मान्यो महनीयो महागुणः ।

महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः

॥ 5 ॥

श्लोक 7

विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः ।

मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः

॥ 6 ॥

श्लोक 8

देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।

महायोगी महामायी महाज्ञानी महास्थिरः

॥ 7 ॥

श्लोक 9

देवशास्ता भूतशास्ता भीमहासपराक्रमः ।

नागहारो नागकेशो व्योमकेशः सनातनः

॥ 8 ॥

श्लोक 10

सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।

लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः

॥ 9 ॥

श्लोक 11

ऋग्यजुःसामथर्वात्मा मल्लकासुरभञ्जनः ।

त्रिमूर्ति दैत्यमथनः प्रकृतिः पुरुषोत्तमः

॥ 10 ॥

श्लोक 12

कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।

कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः

॥ 11 ॥

श्लोक 13

संसारतापविच्छेत्ता पशुलोकभयङ्करः ।

रोगहन्ता प्राणदाता परगर्वविभञ्जनः

॥ 12 ॥

श्लोक 14

सर्वशास्त्रार्थतत्वज्ञो नीतिमान् पापभञ्जनः ।

पुष्कलापूर्णासंयुक्तः परमात्मा सताङ्गतिः

॥ 13 ॥

श्लोक 15

अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।

भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः

॥ 14 ॥

श्लोक 16