Stotram - Sacred Scripture

Hanuman Ashtottara Sata Naama Stotram

Hanuman Ashtottara Sata Naama Stotram

Stotram
Hanuman
22 Verses
110%

हनुमान् (आञ्जनेय) अष्टोत्तर शतनाम स्तोत्रम्

श्लोक 1

आञ्जनेयो महावीरो हनुमान्मारुतात्मजः ।

तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः

श्लोक 2

अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः ।

सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः

॥ 1 ॥

श्लोक 3

परविद्यापरीहारः परशौर्यविनाशनः ।

परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः

॥ 2 ॥

श्लोक 4

सर्वग्रहविनाशी च भीमसेनसहायकृत् ।

सर्वदुःखहरः सर्वलोकचारी मनोजवः

॥ 3 ॥

श्लोक 5

पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् ।

सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा

॥ 4 ॥

श्लोक 6

कपीश्वरो महाकायः सर्वरोगहरः प्रभुः ।

बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः

॥ 5 ॥

श्लोक 7

कपिसेनानायकश्च भविष्यच्चतुराननः ।

कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान्

॥ 6 ॥

श्लोक 8

सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलः ।

गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः

॥ 7 ॥

श्लोक 9

कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः ।

सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान्

॥ 8 ॥

श्लोक 10

वानरः केसरिसुतः सीताशोकनिवारकः ।

अञ्जनागर्भसम्भूतो बालार्कसदृशाननः

॥ 9 ॥

श्लोक 11

विभीषणप्रियकरो दशग्रीवकुलान्तकः ।

लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः

॥ 10 ॥

श्लोक 12

चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः ।

अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः

॥ 11 ॥

श्लोक 13

लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः ।

गन्धमादनशैलस्थो लङ्कापुरविदाहकः

॥ 12 ॥

श्लोक 14

सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः ।

सुरार्चितो महातेजा रामचूडामणिप्रदः

॥ 13 ॥

श्लोक 15

कामरूपी पिङ्गलाक्षो वार्धिमैनाकपूजितः ।

कबलीकृतमार्ताण्डमण्डलो विजितेन्दिर्यः

॥ 14 ॥

श्लोक 16

रामसुग्रीवसन्धाता महिरावणमर्दनः ।

स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः

॥ 15 ॥

श्लोक 17

चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः ।

सञ्जीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः

॥ 16 ॥

श्लोक 18

कालनेमिप्रमथनो हरिमर्कटमर्कटः ।

दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहृत्

॥ 17 ॥

श्लोक 19

योगी रामकथालोलः सीतान्वेषणपण्डितः ।

वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः

॥ 18 ॥

श्लोक 20

इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः ।

पार्थध्वजाग्रसंवासी शरपञ्जरभेदकः

॥ 19 ॥

श्लोक 21

दशबाहुर्लोर्कपूज्यो जाम्बवत्प्रीतिवर्धनः ।

सीतासमेतश्रीरामपादसेवाधुरन्धरः

॥ 20 ॥

श्लोक 22

इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् ।

यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात्

॥ 21 ॥

श्लोक 23