Sri Vishnu Ashtottara Sata Naama Stotram
Sri Vishnu Ashtottara Sata Naama Stotram
श्री विष्णु अष्टोत्तर शतनाम स्तोत्रम्
श्लोक 1
अष्टोत्तरशतं नाम्नां विष्णोरतुलतेजसः ।
यस्य श्रवणमात्रेण नरो नारायणो भवेत्
श्लोक 2
विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः । [वृषापतिः]
दामोदरो दीनबन्धुरादिदेवोऽदितेस्तुतः
॥ 1 ॥
श्लोक 3
पुण्डरीकः परानन्दः परमात्मा परात्परः ।
परशुधारी विश्वात्मा कृष्णः कलिमलापहा
॥ 2 ॥
श्लोक 4
कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः ।
हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः
॥ 3 ॥
श्लोक 5
हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः ।
वामनो वेदवक्ता च वासुदेवः सनातनः
॥ 4 ॥
श्लोक 6
रामो विरामो विरजो रावणारी रमापतिः ।
वैकुण्ठवासी वसुमान् धनदो धरणीधरः
॥ 5 ॥
श्लोक 7
धर्मेशो धरणीनाथो ध्येयो धर्मभृतांवरः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
॥ 6 ॥
श्लोक 8
सर्वगः सर्ववित्सर्वः शरण्यः साधुवल्लभः । [सर्वदः]
कौसल्यानन्दनः श्रीमान् राक्षसःकुलनाशकः
॥ 7 ॥
श्लोक 9
जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा ।
जानकीवल्लभो देवो जयरूपो जलेश्वरः
॥ 8 ॥
श्लोक 10
क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा ।
शेषशायी पन्नगारिवाहनो विष्टरश्रवः
॥ 9 ॥
श्लोक 11
माधवो मथुरानाथो मुकुन्दो मोहनाशनः ।
दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः
॥ 10 ॥
श्लोक 12
सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः ।
नित्यो निरामयश्शुद्धो वरदेवो जगत्प्रभुः
॥ 11 ॥
श्लोक 13
॥ 12 ॥ [नरदेवो]
हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः ।
सर्वदेवमयः श्रीशः सर्वाधारः सनातनः
श्लोक 14
सौम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्दनः ।
यशोदातनयो योगी योगशास्त्रपरायणः
॥ 13 ॥
श्लोक 15
रुद्रात्मको रुद्रमूर्तिः राघवो मधुसूधनः । [रुद्रसूदनः]
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम्
॥ 14 ॥
श्लोक 16
सर्वपापहरं पुण्यं दिव्योरतुलतेजसः ।
दुःखदारिद्र्यदौर्भाग्यनाशनं सुखवर्धनम्
॥ 15 ॥
श्लोक 17
सर्वसम्पत्करं सौम्यं महापातकनाशनम् ।
प्रातरुत्थाय विपेन्द्र पठेदेकाग्रमानसः
॥ 16 ॥
श्लोक 18
तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात्
॥ 17 ॥
श्लोक 19
इति श्री विष्णोः अष्टोत्तरशतनाम स्तोत्रम् ॥
Related Scriptures
1000 Names of Lord Balarama
1000 verses
108 Names of Lord Kalki
108 verses
महा विष्णु स्तोत्रम् - गरुडगमन तव
5 verses
श्री विष्णु सहस्र नाम स्तोत्रम्
168 verses
श्री विष्णु सहस्र नामावलि
1000 verses
श्री विष्णु अष्टोत्तर शत नामावलि
108 verses
