Stotram - Sacred Scripture

Apaduddharaka Hanuman Stotram

Apaduddharaka Hanuman Stotram

Stotram
Hanuman
14 Verses
110%

आपदुद्धारक हनुमत्स्तोत्रम्

श्लोक 1

ॐ अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् ।

वामे करे वैरिभिदं वहन्तं

शैलं परे शृङ्खलहारिटङ्कम् ।

दधानमच्छच्छवियज्ञसूत्रं

भजे ज्वलत्कुण्डलमाञ्जनेयम्

श्लोक 2

संवीतकौपीन मुदञ्चिताङ्गुलिं

समुज्ज्वलन्मौञ्जिमथोपवीतिनम् ।

सकुण्डलं लम्बिशिखासमावृतं

तमाञ्जनेयं शरणं प्रपद्ये

॥ 1 ॥

श्लोक 3

आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।

अकस्मादागतोत्पात नाशनाय नमो नमः

॥ 2 ॥

श्लोक 4

सीतावियुक्तश्रीरामशोकदुःखभयापह ।

तापत्रितयसंहारिन् आञ्जनेय नमोऽस्तु ते

॥ 3 ॥

श्लोक 5

आधिव्याधि महामारी ग्रहपीडापहारिणे ।

प्राणापहर्त्रेदैत्यानां रामप्राणात्मने नमः

॥ 4 ॥

श्लोक 6

संसारसागरावर्त कर्तव्यभ्रान्तचेतसाम् ।

शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते

॥ 5 ॥

श्लोक 7

वज्रदेहाय कालाग्निरुद्रायाऽमिततेजसे ।

ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये

॥ 6 ॥

श्लोक 8

रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् ।

शत्रुनाशकरं भीमं सर्वाभीष्टप्रदायकम्

॥ 7 ॥

श्लोक 9

कारागृहे प्रयाणे वा सङ्ग्रामे शत्रुसङ्कटे ।

जले स्थले तथाऽऽकाशे वाहनेषु चतुष्पथे

॥ 8 ॥

श्लोक 10

गजसिंह महाव्याघ्र चोर भीषण कानने ।

ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत् क्वचित्

॥ 9 ॥

श्लोक 11

सर्ववानरमुख्यानां प्राणभूतात्मने नमः ।

शरण्याय वरेण्याय वायुपुत्राय ते नमः

॥ 10 ॥

श्लोक 12

प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् ।

अर्थसिद्धिं जयं कीर्तिं प्राप्नुवन्ति न संशयः

॥ 11 ॥

श्लोक 13

जप्त्वा स्तोत्रमिदं मन्त्रं प्रतिवारं पठेन्नरः ।

राजस्थाने सभास्थाने प्राप्ते वादे लभेज्जयम्

॥ 12 ॥

श्लोक 14

विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः ।

सर्वापद्भ्यो विमुच्येत नाऽत्र कार्या विचारणा

॥ 13 ॥

श्लोक 15

मन्त्रः ।

मर्कटेश महोत्साह सर्वशोकनिवारक ।

शत्रून् संहर मां रक्ष श्रियं दापय भो हरे ॥ 15

इति विभीषणकृतं सर्वापदुद्धारक श्रीहनुमत् स्तोत्रम् ॥

आपदुद्धारक हनुमत्स्तोत्रम् | (Apaduddharaka Hanuman Stotram) Lyrics | Vedic Tithi