Ashtakam - Sacred Scripture

Gurvashtakam

Gurvashtakam

Ashtakam
Unknown
9 Verses
110%

श्री गुर्वष्टकम् (गुरु अष्टकम्)

श्लोक 1

शरीरं सुरूपं तथा वा कलत्रं

यशश्चारु चित्रं धनं मेरु तुल्यम् ।

मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम्

श्लोक 2

कलत्रं धनं पुत्र पौत्रादिसर्वं

गृहो बान्धवाः सर्वमेतद्धि जातम् ।

मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम्

॥ 1 ॥

श्लोक 3

षड्क्षङ्गादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति ।

मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम्

॥ 2 ॥

श्लोक 4

विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो न चान्यः ।

मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम्

॥ 3 ॥

श्लोक 5

क्षमामण्डले भूपभूपलबृब्दैः

सदा सेवितं यस्य पादारविन्दम् ।

मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम्

॥ 4 ॥

श्लोक 6

यशो मे गतं दिक्षु दानप्रतापात्

जगद्वस्तु सर्वं करे यत्प्रसादात् ।

मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम्

॥ 5 ॥

श्लोक 7

न भोगे न योगे न वा वाजिराजौ

न कन्तामुखे नैव वित्तेषु चित्तम् ।

मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम्

॥ 6 ॥

श्लोक 8

अरण्ये न वा स्वस्य गेहे न कार्ये

न देहे मनो वर्तते मे त्वनर्ध्ये ।

मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम्

॥ 7 ॥

श्लोक 9

गुरोरष्टकं यः पठेत्पुरायदेही

यतिर्भूपतिर्ब्रह्मचारी च गेही ।

लमेद्वाच्छिताथं पदं ब्रह्मसञ्ज्ञं

गुरोरुक्तवाक्ये मनो यस्य लग्नम्

॥ 8 ॥

श्लोक 10