Stotram - Sacred Scripture

Guru Paduka Stotram

Guru Paduka Stotram

Stotram
Unknown
9 Verses
110%

गुरु पादुका स्तोत्रम्

श्लोक 1

अनन्तसंसार-समुद्रतार-

नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।

वैराग्यसाम्राज्यद-पूजनाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम्

श्लोक 2

कवित्ववाराशि-निशाकराभ्यां

दौर्भाग्य-दावाम्बुद-मालिकाभ्याम् ।

दूरीकृतानम्र-विपत्तिताभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम्

॥ 1 ॥

श्लोक 3

नता ययोः श्रीपतितां समीयुः

कदाचिदप्याशु दरिद्रवर्याः ।

मूकाश्च वाचस्पतितां हि ताभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम्

॥ 2 ॥

श्लोक 4

नालीकनीकाश-पदाहृताभ्यां

नानाविमोहादि-निवारिकाभ्याम् ।

नमज्जनाभीष्ट-ततिप्रदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम्

॥ 3 ॥

श्लोक 5

नृपालिमौलि-व्रजरत्नकान्ति-

सरिद्विराजज्झष-कन्यकाभ्याम् ।

नृपत्वदाभ्यां नतलोकपङ्क्तेः

नमो नमः श्रीगुरुपादुकाभ्याम्

॥ 4 ॥

श्लोक 6

पापान्धकारार्क-परम्पराभ्यां

तापत्रयाहीन्द्र-खगेश्वराभ्याम् ।

जाड्याब्धि-संशोषण-वाडवाभ्याम्

नमो नमः श्रीगुरुपादुकाभ्याम्

॥ 5 ॥

श्लोक 7

शमादिषट्कप्रद-वैभवाभ्यां

समाधिदान-व्रतदीक्षिताभ्याम् ।

रमाधवाङ्घ्रि-स्थिरभक्तिदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम्

॥ 6 ॥

श्लोक 8

स्वार्चापराणा-मखिलेष्टदाभ्यां

स्वाहासहायाक्ष-धुरन्धराभ्याम् ।

स्वान्ताच्छभाव-प्रदपूजनाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम्

॥ 7 ॥

श्लोक 9

कामादिसर्प-व्रजगारुडाभ्यां

विवेकवैराग्य-निधिप्रदाभ्याम् ।

बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम्

॥ 8 ॥

श्लोक 10