Stotram - Sacred Scripture

Govindashtakam

Govindashtakam

Stotram
Unknown
8 Verses
110%

गोविन्दाष्टकम्

श्लोक 1

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम् ।

गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।

मायाकल्पितनानाकारमनाकारं भुवनाकारम् ।

क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम्

श्लोक 2

मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासम् ।

व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।

लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम् ।

लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्

॥ 1 ॥

श्लोक 3

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ।

कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।

वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् ।

शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्

॥ 2 ॥

श्लोक 4

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ।

गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।

गोभिर्निगदित गोविन्दस्फुटनामानं बहुनामानम् ।

गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्

॥ 3 ॥

श्लोक 5

गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम् ।

शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् ।

श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम् ।

चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्

॥ 4 ॥

श्लोक 6

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् ।

व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः

निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थम् ।

सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम्

॥ 5 ॥

श्लोक 7

कान्तं कारणकारणमादिमनादिं कालधनाभासम् ।

कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम् ।

कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् ।

कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्

॥ 6 ॥

श्लोक 8

बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्देहम् ।

कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम् ।

वन्द्याशेष महामुनि मानस वन्द्यानन्दपदद्वन्द्वम् ।

वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम्

॥ 7 ॥

श्लोक 9

गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यः ।

गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।

गोविन्दाङ्घ्रि सरोजध्यानसुधाजलधौतसमस्ताघः ।

गोविन्दं परमानन्दामृतमन्तस्थं स तमभ्येति ॥

इति श्री शङ्कराचार्य विरचित श्रीगोविन्दाष्टकं समाप्तं