Stotram - Sacred Scripture

Govinda Damodara Stotram (Selected Verses)

Govinda Damodara Stotram (Selected Verses)

Stotram
Unknown
0 Verses
110%

गोविन्द दामोदर स्तोत्रम् (लघु)

श्लोक 1

करारविन्देन पदारविन्दं

मुखारविन्दे विनिवेशयन्तम् ।

वटस्य पत्रस्य पुटे शयानं

बालं मुकुन्दं मनसा स्मरामि ॥

श्रीकृष्ण गोविन्द हरे मुरारे

हे नाथ नारायण वासुदेव ।

जिह्वे पिबस्वामृतमेतदेव

गोविन्द दामोदर माधवेति ॥ 1

विक्रेतुकामाखिलगोपकन्या

मुरारिपादार्पितचित्तवृत्तिः ।

दध्यादिकं मोहवशादवोचत्

गोविन्द दामोदर माधवेति ॥ 2

गृहे गृहे गोपवधूकदम्बाः

सर्वे मिलित्वा समवाप्य योगम् ।

पुण्यानि नामानि पठन्ति नित्यं

गोविन्द दामोदर माधवेति ॥ 3

सुखं शयाना निलये निजेऽपि

नामानि विष्णोः प्रवदन्ति मर्त्याः ।

ते निश्चितं तन्मयतां व्रजन्ति

गोविन्द दामोदर माधवेति ॥ 4

जिह्वे सदैवं भज सुन्दराणि

नामानि कृष्णस्य मनोहराणि ।

समस्त भक्तार्तिविनाशनानि

गोविन्द दामोदर माधवेति ॥ 5

सुखावसाने इदमेव सारं

दुःखावसाने इदमेव ज्ञेयम् ।

देहावसाने इदमेव जाप्यं

गोविन्द दामोदर माधवेति ॥ 6

जिह्वे रसज्ञे मधुरप्रिये त्वं

सत्यं हितं त्वां परमं वदामि ।

अवर्णयेथा मधुराक्षराणि

गोविन्द दामोदर माधवेति ॥ 7

त्वामेव याचे मम देहि जिह्वे

समागते दण्डधरे कृतान्ते ।

वक्तव्यमेवं मधुरं सुभक्त्या

गोविन्द दामोदर माधवेति ॥ 8

श्रीकृष्ण राधावर गोकुलेश

गोपाल गोवर्धननाथ विष्णो ।

जिह्वे पिबस्वामृतमेतदेव

गोविन्द दामोदर माधवेति ॥ 9

गोविन्द दामोदर स्तोत्रम् (लघु) | (Govinda Damodara Stotram (Selected Verses)) Lyrics | Vedic Tithi