Stotram - Sacred Scripture

Ganga Stotram

Ganga Stotram

Stotram
Unknown
14 Verses
110%

गङ्गा स्तोत्रम्

श्लोक 1

देवि! सुरेश्वरि! भगवति! गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।

शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले

श्लोक 2

भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।

नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम्

॥ 1 ॥

श्लोक 3

हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।

दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम्

॥ 2 ॥

श्लोक 4

तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।

मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः

॥ 3 ॥

श्लोक 5

पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे ।

भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये

॥ 4 ॥

श्लोक 6

कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ।

पारावारविहारिणि गङ्गे विमुखयुवति कृततरलापाङ्गे

॥ 5 ॥

श्लोक 7

तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।

नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे

॥ 6 ॥

श्लोक 8

पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।

इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये

॥ 7 ॥

श्लोक 9

रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।

त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे

॥ 8 ॥

श्लोक 10

अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ।

तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः

॥ 9 ॥

श्लोक 11

वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।

अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः

॥ 10 ॥

श्लोक 12

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।

गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम्

॥ 11 ॥

श्लोक 13

येषां हृदये गङ्गा भक्तिस्तेषां भवति सदा सुखमुक्तिः ।

मधुराकन्ता पञ्झटिकाभिः परमानन्दकलितललिताभिः

॥ 12 ॥

श्लोक 14

गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् ।

शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति च समाप्तः

॥ 13 ॥

श्लोक 15