Sukra Ashtottara Sata Nama Stotram
Sukra Ashtottara Sata Nama Stotram
शुक्र अष्टोत्तर शत नाम स्तोत्रम्
श्लोक 1
शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः ।
शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः
श्लोक 2
दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः ।
काव्यासक्तः कामपालः कविः कल्याणदायकः
॥ 1 ॥
श्लोक 3
भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः ।
भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः
॥ 2 ॥
श्लोक 4
चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः ।
निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरन्धरः
॥ 3 ॥
श्लोक 5
सर्वलक्षणसम्पन्नः सर्वावगुणवर्जितः ।
समानाधिकनिर्मुक्तः सकलागमपारगः
॥ 4 ॥
श्लोक 6
भृगुर्भोगकरो भूमिसुरपालनतत्परः ।
मनस्वी मानदो मान्यो मायातीतो महाशयः
॥ 5 ॥
श्लोक 7
बलिप्रसन्नोऽभयदो बली बलपराक्रमः ।
भवपाशपरित्यागो बलिबन्धविमोचकः
॥ 6 ॥
श्लोक 8
घनाशयो घनाध्यक्षो कम्बुग्रीवः कलाधरः ।
कारुण्यरससम्पूर्णः कल्याणगुणवर्धनः
॥ 7 ॥
श्लोक 9
श्वेताम्बरः श्वेतवपुश्चतुर्भुजसमन्वितः ।
अक्षमालाधरोऽचिन्त्यो अक्षीणगुणभासुरः
॥ 8 ॥
श्लोक 10
नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः ।
वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः
॥ 9 ॥
श्लोक 11
चिन्तितार्थप्रदः शान्तमतिः चित्तसमाधिकृत् ।
आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः
॥ 10 ॥
श्लोक 12
पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः ।
अजेयो विजितारातिर्विविधाभरणोज्ज्वलः
॥ 11 ॥
श्लोक 13
कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः ।
मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः
॥ 12 ॥
श्लोक 14
रत्नसिंहासनारूढो रथस्थो रजतप्रभः ।
सूर्यप्राग्देशसञ्चारः सुरशत्रुसुहृत् कविः
॥ 13 ॥
श्लोक 15
तुलावृषभराशीशो दुर्धरो धर्मपालकः ।
भाग्यदो भव्यचारित्रो भवपाशविमोचकः
॥ 14 ॥
श्लोक 16
गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः ।
ज्येष्ठानक्षत्रसम्भूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः
॥ 15 ॥
श्लोक 17
अपवर्गप्रदोऽनन्तः सन्तानफलदायकः ।
सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः
॥ 16 ॥
श्लोक 18
एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम् ।
सर्वपापप्रशमनं सर्वपुण्यफलप्रदम् ।
यः पठेच्छृणुयाद्वापि सर्वान् कामानवाप्नुयात्
॥ 17 ॥
श्लोक 19
इति श्री शुक्र अष्टोत्तरशतनाम स्तोत्रम् ।
