Stotram - Sacred Scripture

Ganga Ashtakam

Ganga Ashtakam

Stotram
Unknown
10 Verses
110%

गङ्गाष्टकं

श्लोक 1

भगवति तव तीरे नीरमात्राशनोऽहम्

विगतविषयतृष्णः कृष्णमाराधयामि ।

सकल कलुषभङ्गे स्वर्गसोपानसङ्गे

तरलतरतरङ्गे देवि गङ्गे प्रसीद

श्लोक 2

भगवति भवलीला मौलिमाले तवाम्भः

कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।

अमरनगरनारी चामर ग्राहिणीनां

विगत कलिकलङ्कातङ्कमङ्के लुठन्ति

॥ 1 ॥

श्लोक 3

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती

स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती ।

क्षोणीपृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्सयन्ती

पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु

॥ 2 ॥

श्लोक 4

मज्जन्मातङ्ग कुम्भच्युत मदमदिरामोदमत्तालिजालं

स्नानैः सिद्धाङ्गनानां कुचयुग विलसत्कुङ्कुमासङ्गपिङ्गम् ।

सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं

पायान्नो गाङ्गमम्भः करिकलभ कराक्रान्त रङ्गस्तरङ्गम्

॥ 3 ॥

श्लोक 5

आदावादि पितामहस्य नियम व्यापार पात्रे जलं

पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।

भूयः शम्भुजटाविभूषण मणिर्जह्नोर्महर्षेरियं

कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते

॥ 4 ॥

श्लोक 6

शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी

पारावारविहारिणी भवभयश्रेणी समुत्सारिणी ।

शेषाङ्गैरनुकारिणी हरशिरोवल्लीदलाकारिणी

काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी

॥ 5 ॥

श्लोक 7

कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं

त्वमापीता पीताम्बरपुरवासं वितरसि ।

त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां

तदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः

॥ 6 ॥

श्लोक 8

गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये

पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे ।

प्रायश्चितं यदि स्यात्तव जलकणिका ब्रह्महत्यादि पापे

कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गङ्गे प्रसीद

॥ 7 ॥

श्लोक 9

मातर्जाह्नवी शम्भुसङ्गमिलिते मौलौ निधायाञ्जलिं

त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम् ।

सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे

भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती

॥ 8 ॥

श्लोक 10

गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः ।

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

॥ 9 ॥

श्लोक 11