Ashtakam - Sacred Scripture

Ganesha Ashtakam

Ganesha Ashtakam

Ashtakam
Ganesha
13 Verses
110%

गणेश अष्टकम्

श्लोक 1

सर्वे उचुः ।

यतोऽनन्तशक्तेरनन्ताश्च जीवा

यतो निर्गुणादप्रमेया गुणास्ते ।

यतो भाति सर्वं त्रिधा भेदभिन्नं

सदा तं गणेशं नमामो भजामः

श्लोक 2

यतश्चाविरासीज्जगत्सर्वमेत-

-त्तथाब्जासनो विश्वगो विश्वगोप्ता ।

तथेन्द्रादयो देवसङ्घा मनुष्याः

सदा तं गणेशं नमामो भजामः

॥ 1 ॥

श्लोक 3

यतो वह्निभानू भवो भूर्जलं च

यतः सागराश्चन्द्रमा व्योम वायुः ।

यतः स्थावरा जङ्गमा वृक्षसङ्घाः

सदा तं गणेशं नमामो भजामः

॥ 2 ॥

श्लोक 4

यतो दानवाः किन्नरा यक्षसङ्घा

यतश्चारणा वारणाः श्वापदाश्च ।

यतः पक्षिकीटा यतो वीरुधश्च

सदा तं गणेशं नमामो भजामः

॥ 3 ॥

श्लोक 5

यतो बुद्धिरज्ञाननाशो मुमुक्षो-

-र्यतः सम्पदो भक्तसन्तोषदाः स्युः ।

यतो विघ्ननाशो यतः कार्यसिद्धिः

सदा तं गणेशं नमामो भजामः

॥ 4 ॥

श्लोक 6

यतः पुत्रसम्पद्यतो वाञ्छितार्थो

यतोऽभक्तविघ्नास्तथाऽनेकरूपाः ।

यतः शोकमोहौ यतः काम एव

सदा तं गणेशं नमामो भजामः

॥ 5 ॥

श्लोक 7

यतोऽनन्तशक्तिः स शेषो बभूव

धराधारणेऽनेकरूपे च शक्तः ।

यतोऽनेकधा स्वर्गलोका हि नाना

सदा तं गणेशं नमामो भजामः

॥ 6 ॥

श्लोक 8

यतो वेदवाचो विकुण्ठा मनोभिः

सदा नेति नेतीति यत्ता गृणन्ति ।

परब्रह्मरूपं चिदानन्दभूतं

सदा तं गणेशं नमामो भजामः

॥ 7 ॥

श्लोक 9

श्रीगणेश उवाच ।

पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।

त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति

॥ 8 ॥

श्लोक 10

यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।

अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात्

॥ 9 ॥

श्लोक 11

यः पठेन्मासमात्रं तु दशवारं दिने दिने ।

स मोचयेद्बन्धगतं राजवध्यं न संशयः

॥ 10 ॥

श्लोक 12

विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।

वाञ्छिताँल्लभते सर्वानेकविंशतिवारतः

॥ 11 ॥

श्लोक 13

यो जपेत्परया भक्त्या गजाननपरो नरः ।

एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः

॥ 12 ॥

श्लोक 14

इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकम् ।