Stotram - Sacred Scripture

Sree Maha Ganesha Pancharatnam

Sree Maha Ganesha Pancharatnam

Stotram
Ganesha
5 Verses
110%

श्री महागणेश पञ्चरत्नम्

श्लोक 1

मुदाकरात्त मोदकं सदा विमुक्ति साधकम् ।

कलाधरावतंसकं विलासिलोक रक्षकम् ।

अनायकैक नायकं विनाशितेभ दैत्यकम् ।

नताशुभाशु नाशकं नमामि तं विनायकम्

श्लोक 2

नतेतराति भीकरं नवोदितार्क भास्वरम् ।

नमत्सुरारि निर्जरं नताधिकापदुद्धरम् ।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् ।

महेश्वरं तमाश्रये परात्परं निरन्तरम्

॥ 1 ॥

श्लोक 3

समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् ।

दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ।

कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।

मनस्करं नमस्कृतां नमस्करोमि भास्वरम्

॥ 2 ॥

श्लोक 4

अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनम् ।

पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ।

प्रपञ्च नाश भीषणं धनञ्जयादि भूषणम् ।

कपोल दानवारणं भजे पुराण वारणम्

॥ 3 ॥

श्लोक 5

नितान्त कान्ति दन्त कान्ति मन्त कान्ति कात्मजम् ।

अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ।

हृदन्तरे निरन्तरं वसन्तमेव योगिनाम् ।

तमेकदन्तमेव तं विचिन्तयामि सन्ततम्

॥ 4 ॥

श्लोक 6

महागणेश पञ्चरत्नमादरेण योऽन्वहम् ।

प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।

अरोगतामदोषतां सुसाहितीं सुपुत्रताम् ।

समाहितायु रष्टभूति मभ्युपैति सोऽचिरात् ॥

श्री महागणेश पञ्चरत्नम् | (Sree Maha Ganesha Pancharatnam) Lyrics | Vedic Tithi