Sankata Nashana Ganesha Stotram
Sankata Nashana Ganesha Stotram
सङ्कट नाशन गणेश स्तोत्रम्
श्लोक 1
नारद उवाच ।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये
श्लोक 2
प्रथमं वक्रतुण्डं च, एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं, गजवक्त्रं चतुर्थकम्
॥ 1 ॥
श्लोक 3
लम्बोदरं पञ्चमं च, षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च, धूम्रवर्णं तथाष्टमम्
॥ 2 ॥
श्लोक 4
नवमं भालचन्द्रं च, दशमं तु विनायकम् ।
एकादशं गणपतिं, द्वादशं तु गजाननम्
॥ 3 ॥
श्लोक 5
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्
॥ 4 ॥
श्लोक 6
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्
॥ 5 ॥
श्लोक 7
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः
॥ 6 ॥
श्लोक 8
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः
॥ 7 ॥
श्लोक 9
इति श्रीनारदपुराणे सङ्कष्टनाशनं नाम गणेश स्तोत्रम् ।
