Ganesha Dwadashanama Stotram
Ganesha Dwadashanama Stotram
Stotram
Ganesha
7 Verses
110%
गणेश द्वादशनाम स्तोत्रम्
श्लोक 1
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः
श्लोक 2
अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः
॥ 1 ॥
श्लोक 3
गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ।
प्रसन्नो भव मे नित्यं वरदातर्विनायक
॥ 2 ॥
श्लोक 4
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः
॥ 3 ॥
श्लोक 5
धूम्रकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः ।
द्वादशैतानि नामानि गणेशस्य तु यः पठेत्
॥ 4 ॥
श्लोक 6
विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् ।
इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम्
॥ 5 ॥
श्लोक 7
विध्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते
॥ 6 ॥
श्लोक 8
॥ इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं सम्पूर्णम् ॥
