Stotram - Sacred Scripture

Ganapati Atharva Sheersham

Ganapati Atharva Sheersham

Stotram
Unknown
14 Verses
110%

श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)

ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः ।

भ॒द्र-म्प॑श्येमा॒क्षभि॒र्यज॑त्राः ।

स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ ।

व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ।

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।

स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।

स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

ओ-न्नम॑स्ते ग॒णप॑तये ।

त्वमे॒व प्र॒त्यक्ष॒-न्तत्त्व॑मसि ।

त्वमे॒व के॒वल॒-ङ्कर्ता॑-ऽसि ।

त्वमे॒व के॒वलं॒ हर्ता॑-ऽसि ।

त्वमे॒व के॒वल॒-न्धर्ता॑-ऽसि ।

त्वमेव सर्व-ङ्खल्विद॑-म्ब्रह्मा॒सि ।

त्वं साक्षादात्मा॑-ऽसि नि॒त्यम् ॥ 1 ॥

ऋ॑तं-वँ॒च्मि । स॑त्यं-वँ॒च्मि ॥ 2 ॥

अ॒व त्व॒-म्माम् । अव॑ व॒क्तारम्᳚ ।

अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ । अव॑ धा॒तारम्᳚ ।

अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् ।

अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् ।

अव॑ द॒क्षिणात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् ।

अवाध॒रात्ता᳚त् । सर्वतो मा-म्पाहि पाहि॑ सम॒न्तात् ॥ 3 ॥

त्वं-वाँङ्मय॑स्त्व-ञ्चिन्म॒यः ।

त्वमानन्दमय॑स्त्व-म्ब्रह्म॒मयः ।

त्वं सच्चिदानन्दा-ऽद्वि॑तीयो॒-ऽसि ।

त्व-म्प्र॒त्यक्ष॒-म्ब्रह्मा॑सि ।

त्व-ञ्ज्ञानमयो विज्ञान॑मयो॒-ऽसि ॥ 4 ॥

सर्व-ञ्जगदिद-न्त्व॑त्तो जा॒यते ।

सर्व-ञ्जगदिद-न्त्व॑त्तस्ति॒ष्ठति ।

सर्व-ञ्जगदिद-न्त्वयि लय॑मेष्य॒ति ।

सर्व-ञ्जगदिद-न्त्वयि॑ प्रत्ये॒ति ।

त्व-म्भूमिरापो-ऽनलो-ऽनि॑लो न॒भः ।

त्व-ञ्चत्वारि वा᳚क्पदा॒नि ॥ 5 ॥

त्व-ङ्गु॒णत्र॑याती॒तः । त्वं अवस्थात्र॑याती॒तः ।

त्व-न्दे॒हत्र॑याती॒तः । त्व-ङ्का॒लत्र॑याती॒तः ।

त्व-म्मूलाधारस्थितो॑-ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः ।

त्वां-योँगिनो ध्याय॑न्ति नि॒त्यम् ।

त्व-म्ब्रह्मा त्वं-विँष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं-वाँयुस्त्वं सूर्यस्त्व-ञ्चन्द्रमास्त्व-म्ब्रह्म॒ भूर्भुव॒-स्स्वरोम् ॥ 6 ॥

ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं᳚ स्तदन॒न्तरम् ।

अनुस्वारः प॑रत॒रः । अर्धे᳚न्दुल॒सितम् ।

तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् ।

गकारः पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् ।

अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् ।

नादः॑ सन्धा॒नम् । सग्ंहि॑ता स॒न्धिः ।

सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः ।

निचृद्गाय॑त्रीच्छ॒न्दः । श्री महागणपति॑र्देवता ।

ओ-ङ्ग-ङ्ग॒णप॑तये नमः ॥ 7 ॥

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।

तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ 8 ॥

एकद॒न्त-ञ्च॑तुर्​ह॒स्त॒-म्पा॒शम॑ङ्कुश॒धारि॑णम् ।

रद॑-ञ्च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राण॑-म्मूष॒कध्व॑जम् ।

रक्तं॑-लँ॒म्बोद॑रं शू॒र्प॒कर्णकं॑ रक्त॒वास॑सम् ।

रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पै-स्सु॒पूजि॑तम् ।

भक्ता॑नु॒कम्पि॑न-न्दे॒व॒-ञ्ज॒गत्का॑रण॒मच्यु॑तम् ।

आवि॑र्भू॒त-ञ्च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।

एव॑-न्ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां-वँ॑रः ॥ 9 ॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते-ऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒ नमः ॥ 10 ॥

एतदथर्वशीर्​षं-योँ-ऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते ।

स सर्वविघ्नै᳚र्न बा॒ध्यते । स सर्वत-स्सुख॑मेध॒ते ।

स पञ्चमहापापा᳚-त्प्रमु॒च्यते । सा॒यम॑धीया॒नो॒ दिवसकृत-म्पाप॑-न्नाश॒यति ।

प्रा॒तर॑धीया॒नो॒ रात्रिकृत-म्पाप॑-न्नाश॒यति ।

साय-म्प्रातः प्र॑युञ्जा॒नो॒ पापो-ऽपा॑पो भ॒वति ।

सर्वत्राधीयानो-ऽपवि॑घ्नो भवति । धर्मार्थकाममोक्ष॑-ञ्च वि॒न्दति ।

इदमथर्वशीर्​षमशिष्याय॑ न दे॒यम् । यो यदि मो॑हाद् दा॒स्यति स पापी॑या-न्भ॒वति ।

सहस्रावर्तनाद्यं-यँ-ङ्काम॑मधी॒ते । त-न्तमने॑न सा॒धयेत् ॥ 11 ॥

अनेन गणपतिम॑भिषि॒ञ्चति । स वा᳚ग्मी भ॒वति ।

चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वा-न्भ॒वति ।

इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्या॒चर॑णं-विँ॒द्यान्न बिभेति कदा॑चने॒ति ॥ 12 ॥

यो दूर्वाङ्कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति ।

यो ला॑जैर्य॒जति स यशो॑वा-न्भ॒वति । स मेधा॑वा-न्भ॒वति ।

यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति ।

य-स्साज्य समि॑द्भिर्य॒जति स सर्वं-लँभते स स॑र्वं-लँ॒भते ॥ 13 ॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति ।

सूर्यग्रहे म॑हान॒द्या-म्प्रतिमासन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति ।

महाविघ्ना᳚-त्प्रमु॒च्यते । महादोषा᳚-त्प्रमु॒च्यते ।

महापापा᳚-त्प्रमु॒च्यते । [महाप्रत्यवाया᳚-त्प्रमु॒च्यते । ]

स सर्व॑विद्भवति स सर्व॑विद्भ॒वति ।

य ए॑वं-वेँ॒द । इत्यु॑प॒निष॑त् ॥ 14 ॥

ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः ।

भ॒द्र-म्प॑श्येमा॒क्षभि॒र्यज॑त्राः ।

स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ ।

व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ।

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।

स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।

स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

About This Stotram

Overview

The Ganapati Atharva Sheersham (Ganapati Atharvashirsha Upanishad) is a Sanskrit Upanishadic text of 14 sections dedicated to Lord Ganesha. It presents Ganesha as identical with Brahman — the ultimate reality — and as the source of all mantras, all deities, and all existence. The text belongs to the Atharvaveda tradition and is among the most important scriptural sources for the Ganapatya sect within Hinduism.

What are the benefits of chanting Ganapati Atharva Sheersham?

  • Removal of obstacles (vighna nivarana) in material and spiritual life
  • Attainment of knowledge, wisdom, and clarity (jnana prapti)
  • Success in new undertakings (siddhi prapti)
  • Deepening of Ganesha worship within a Vedic-Upanishadic framework

When is the best time to recite this?

The Ganapati Atharva Sheersham is recited in the morning, during Ganesha Chaturthi, and before beginning any important new task. Regular daily recitation is practiced by devotees of Ganesha.

What is the historical and traditional background?

The Ganapati Atharva Sheersham is classified as a minor Upanishad of the Atharvaveda. Its composition date is uncertain and debated, with some scholars placing it in the medieval period and others arguing for an earlier date. The text follows the structural conventions of Upanishadic literature, including a statement of the rishi, meter, and deity, followed by philosophical and mantra content. It is the doctrinal foundation of the Ganapatya tradition, which venerates Ganesha as the supreme deity. The text gained particular prominence in Maharashtra, where Ganesha worship is especially central to regional religious life.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Ganapati Gakara Ashtottara Satanama Stotram — a 108-name stotram of Ganesha used in worship alongside the Atharva Sheersham
  • Sankata Nashana Ganesha Stotram — a short Sanskrit hymn for Ganesha focused on removal of distress, complementing the philosophical scope of the Atharva Sheersham