Kavacham - Sacred Scripture

Durga Kavacham

Durga Kavacham

Kavacham
Durga
7 Verses
110%

दुर्गा कवचम्

श्लोक 1

ईश्वर उवाच ।

शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।

पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात्

श्लोक 2

अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।

न चाप्नोति फलं तस्य परं च नरकं व्रजेत्

॥ 1 ॥

श्लोक 3

उमादेवी शिरः पातु ललाटे शूलधारिणी ।

चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी

॥ 2 ॥

श्लोक 4

सुगन्धा नासिकं पातु वदनं सर्वधारिणी ।

जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा

॥ 3 ॥

श्लोक 5

अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।

हृदयं ललितादेवी उदरं सिंहवाहिनी

॥ 4 ॥

श्लोक 6

कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ।

महाबला च जङ्घे द्वे पादौ भूतलवासिनी

॥ 5 ॥

श्लोक 7

एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका ।

रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते

॥ 6 ॥

श्लोक 8

इति कुब्जिकातन्त्रोक्तं श्री दुर्गा कवचम् ।