Durga Kavacham (Brahmanda Puranam)
Durga Kavacham (Brahmanda Puranam)
दुर्गा कवचम् (ब्रह्माण्ड पुराणम्)
श्लोक 1
नारायण उवाच ।
ॐ दुर्गेति चतुर्थ्यन्तः स्वाहान्तो मे शिरोऽवतु ।
मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः
श्लोक 2
विचारो नास्ति वेदेषु ग्रहणेऽस्य मनोर्मुने ।
मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः
॥ 1 ॥
श्लोक 3
मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽन्ततः ।
ॐ दुर्गे रक्षयति च कण्ठं पातु सदा मम
॥ 2 ॥
श्लोक 4
ॐ ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् ।
ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा
॥ 3 ॥
श्लोक 5
ह्रीं मे वक्षःस्थलं पातु हस्तं श्रीमिति सन्ततम् ।
श्रीं ह्रीं क्लीं पातु सर्वाङ्गं स्वप्ने जागरणे तथा
॥ 4 ॥
श्लोक 6
प्राच्यां मां प्रकृतिः पातुः पातु वह्नौ च चण्डिका ।
दक्षिणे भद्रकाली च नैरृत्यां च महेश्वरी
॥ 5 ॥
श्लोक 7
वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला ।
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया
॥ 6 ॥
श्लोक 8
जले स्थले चान्तरिक्षे पातु मां जगदम्बिका ।
इति ते कथितं वत्स कवचं च सुदुर्लभम्
॥ 7 ॥
श्लोक 9
यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् ।
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः
॥ 8 ॥
श्लोक 10
इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने सप्तषष्टितमोऽध्याये ब्रह्माण्डमोहनं नाम श्री दुर्गा कवचम् ।
Related Scriptures
अर्जुन कृत श्री दुर्गा स्तोत्रम्
13 verses
दकारादि दुर्गा अष्टोत्तर शत नामावलि
108 verses
देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः
101 verses
देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः
55 verses
देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः
41 verses
देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः
68 verses
