Stotram - Sacred Scripture

SrI Durga Sapta Shloki

SrI Durga Sapta Shloki

Stotram
Durga
7 Verses
110%

श्री दुर्गा सप्त श्लोकी

श्लोक 1

शिव उवाच ।

देवी त्वं भक्तसुलभे सर्वकार्यविधायिनि ।

कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥

देव्युवाच ।

शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।

मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥

अस्य श्री दुर्गा सप्तश्लोकी स्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप् छन्दः, श्री महाकाली महालक्ष्मी महासरस्वत्यो देवताः, श्री दुर्गा प्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः ।

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।

बलादाकृष्य मोहाय महामाया प्रयच्छति

श्लोक 2

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्यदुःख भयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदार्द्र चित्ता

॥ 1 ॥

श्लोक 3

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते

॥ 2 ॥

श्लोक 4

शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते

॥ 3 ॥

श्लोक 5

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते

॥ 4 ॥

श्लोक 6

रोगानशेषानपहंसि तुष्टा-

रुष्टा तु कामान् सकलानभीष्टान् ।

त्वामाश्रितानां न विपन्नराणां

त्वामाश्रिता ह्याश्रयतां प्रयान्ति

॥ 5 ॥

श्लोक 7

सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।

एवमेव त्वया कार्यमस्मद्वैरि विनाशनम्

॥ 6 ॥

श्लोक 8

इति श्री दुर्गा सप्तश्लोकी ।