Stotram - Sacred Scripture

Devi Mahatmyam Durga Saptasati Chapter 3

Devi Mahatmyam Durga Saptasati Chapter 3

Stotram
Durga
42 Verses
110%

देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः

महिषासुरवधो नाम तृतीयोऽध्यायः ॥

ध्यानं

ॐ उद्यद्भानुसहस्रकान्तिं अरुणक्षौमां शिरोमालिकां

रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरम् ।

हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं

देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ॥

ऋषिरुवाच ॥1॥

निहन्यमानं तत्सैन्यं अवलोक्य महासुरः।

सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ॥2॥

स देवीं शरवर्षेण ववर्ष समरेऽसुरः।

यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ॥3॥

तस्य छित्वा ततो देवी लीलयैव शरोत्करान्।

जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥4॥

चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्।

विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ॥5॥

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः।

अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥6॥

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि।

आजघान भुजे सव्ये देवीं अव्यतिवेगवान् ॥6॥

तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन।

ततो जग्राह शूलं स कोपाद् अरुणलोचनः ॥8॥

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः।

जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥9॥

दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत।

तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ॥10॥

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ।

आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ॥11॥

सोऽपि शक्तिम्मुमोचाथ देव्यास्तां अम्बिका द्रुतम्।

हुङ्काराभिहतां भूमौ पातयामासनिष्प्रभाम् ॥12॥

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः

चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥13॥

ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः।

बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥14॥

युध्यमानऽउ ततस्तऽउ तु तस्मान्नागान्महीं गतऽउ

युयुधातेऽतिसंरब्धौ प्रहारै अतिदारुणैः ॥15॥

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।

करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥16॥

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः।

दन्त मुष्टितलैश्चैव करालश्च निपातितः ॥17॥

देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्।

भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥18॥

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्

त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥19॥

बिडालस्यासिना कायात् पातयामास वै शिरः।

दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥20॥

एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः।

माहिषेण स्वरूपेण त्रासयामासतान् गणान् ॥21॥

कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्।

लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ॥22॥

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च।

निः श्वासपवनेनान्यान् पातयामास भूतले ॥23॥

निपात्य प्रमथानीकमभ्यधावत सोऽसुरः

सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्भिका ॥24॥

सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः।

शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥25॥

वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत।

लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥26॥

धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घनाः।

श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥27॥

इतिक्रोधसमाध्मातमापतन्तं महासुरम्।

दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाऽकरोत् ॥28॥

सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्।

तत्याजमाहिषं रूपं सोऽपि बद्धो महामृधे ॥29॥

ततः सिंहोऽभवत्सध्यो यावत्तस्याम्बिका शिरः।

छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ॥30॥

तत एवाशु पुरुषं देवी चिच्छेद सायकैः।

तं खड्गचर्मणा सार्धं ततः सोऽ भून्महा गजः ॥31॥

करेण च महासिंहं तं चकर्ष जगर्जच ।

कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥32॥

ततो महासुरो भूयो माहिषं वपुरास्थितः।

तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥33॥

ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्।

पपौ पुनः पुनश्चैव जहासारुणलोचना ॥34॥

ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः।

विषाणाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान् ॥35॥

सा च ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः।

उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥36॥

देव्यु​उवाच॥

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्।

मयात्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥37॥

ऋषिरुवाच॥

एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्।

पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ॥38॥

ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः।

अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥40॥

अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः ।

तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥41॥

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।

प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥42॥

तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः।

जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥43॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयोऽध्यायं समाप्तम् ॥

आहुति

ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥

About This Stotram

Overview

Durga Saptasati Chapter 3 (Mahishasura Vadha) is the third chapter of the Devi Mahatmyam in the Markandeya Purana, containing 42 verses. This chapter narrates the climax of the Mahishasura battle episode (Madhyama Charitra), culminating in the goddess's slaying of the demon Mahishasura. It is part of the full Chandipatha recitation cycle and belongs to the Shakta Puranic tradition.

What are the benefits of chanting Durga Saptasati Chapter 3?

  • Recitation of this chapter invokes the goddess's power at the narrative moment of her ultimate victory over Mahishasura.
  • Chanting is associated with victory over obstacles and enemies, and relief from fear.
  • The chapter completes the Madhyama Charitra narrative arc and is recited to invoke the full power of the Mahishasura Mardini episode.
  • It contributes to the complete merit of the full Chandipatha when recited in sequence during Navaratri.
  • The goddess's emergence from the combined powers of all the gods in this narrative is understood as a statement of her supreme status.

When is the best time to recite this?

Navaratri is the primary occasion. Chapter 3 typically falls on the second or third day of the recitation cycle. Morning and evening recitations during Navaratri are standard. Individual chapters may also be recited at other times for specific purposes.

What is the historical and traditional background?

Chapter 3 concludes the Madhyama Charitra of the Devi Mahatmyam, which belongs to the Markandeya Purana (approximately 4th-6th centuries CE). The narrative of Mahishasura's defeat is the most widely known episode in Hindu goddess mythology and has been the subject of numerous artistic, literary, and liturgical elaborations. This chapter is directly related to the iconography of Durga (Mahishasura Mardini) seen in temples and artwork across India. The authorship follows the general attribution of the Markandeya Purana to the sage Markandeya.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Devi Mahatmyam Durga Saptasati Chapter 2 — the preceding chapter that narrates the battle with Mahishasura's armies leading up to the final confrontation in this chapter.
  • Devi Mahatmyam Durga Saptasati Chapter 1 — the opening chapter of the full text.
  • Mahishasura Mardini Stotram — a popular hymn celebrating the same event as this chapter, often recited independently from the full Saptasati cycle.