Devi Mahatmyam Durga Saptasati Chapter 2
Devi Mahatmyam Durga Saptasati Chapter 2
देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः
महिषासुर सैन्यवधो नाम द्वितीयोऽध्यायः ॥
अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः । उष्णिक् छन्दः । श्रीमहालक्ष्मीदेवता। शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ॥
ध्यानं
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां
सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थिताम् ॥
ऋषिरुवाच ॥1॥
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।
महिषेऽसुराणां अधिपे देवानाञ्च पुरन्दरे
तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं।
जित्वा च सकलान् देवान् इन्द्रोऽभून्महिषासुरः ॥3॥
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।
पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ ॥4॥
यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥5॥
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च
अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति ॥6॥
स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥6॥
एतद्वः कथितं सर्वं अमरारिविचेष्टितम्।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥8॥
इत्थं निशम्य देवानां वचांसि मधुसूधनः
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥9॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥10॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः।
निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत ॥11॥
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥12॥
अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥13॥
यदभूच्छाम्भवं तेजः स्तेनाजायत तन्मुखम्।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥14॥
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्।
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥15॥
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्क तेजसा।
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥16॥
तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥17॥
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च
अन्येषां चैव देवानां सम्भवस्तेजसां शिव ॥18॥
ततः समस्त देवानां तेजोराशिसमुद्भवाम्।
तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः ॥19॥
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥20॥
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥21॥
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥22॥
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलं ॥23॥
समस्तरोमकूपेषु निज रश्मीन् दिवाकरः
कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम् ॥24॥
क्षीरोदश्चामलं हारं अजरे च तथाम्बरे
चूडामणिं तथादिव्यं कुण्डले कटकानिच ॥25॥
अर्धचन्द्रं तधा शुभ्रं केयूरान् सर्व बाहुषु
नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम् ॥26॥
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च
विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं ॥27॥
अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम्।
अम्लान पङ्कजां मालां शिरस्यु रसि चापराम् ॥28॥
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्।
हिमवान् वाहनं सिंहं रत्नानि विविधानिच ॥29॥
ददावशून्यं सुरया पानपात्रं दनाधिपः।
शेषश्च सर्व नागेशो महामणि विभूषितम् ॥30॥
नागहारं ददऽउ तस्यै धत्ते यः पृथिवीमिमाम्।
अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः ॥31॥
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु।
तस्यानादेन घोरेण कृत्स्न मापूरितं नभः ॥32॥
अमायतातिमहता प्रतिशब्दो महानभूत्।
चुक्षुभुः सकलालोकाः समुद्राश्च चकम्पिरे ॥33॥
चचाल वसुधा चेलुः सकलाश्च महीधराः।
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥34॥
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः।
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यं अमरारयः ॥35॥
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥36॥
अभ्यधावत तं शब्दं अशेषैरसुरैर्वृतः।
स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा ॥37॥
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥38॥
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम्।
ततः प्रववृते युद्धं तया देव्या सुरद्विषां ॥39॥
शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगन्तरम्।
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥40॥
युयुधे चमरश्चान्यैश्चतुरङ्गबलान्वितः।
रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः ॥41॥
अयुध्यतायुतानां च सहस्रेण महाहनुः।
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥42॥
अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे।
गजवाजि सहस्रौघै रनेकैः परिवारितः ॥43॥
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥44॥
युयुधे संयुगे तत्र रथानां परिवारितः।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥45॥
युयुधुः संयुगे देव्या सह तत्र महासुराः।
कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ॥46॥
हयानां च वृतो युद्धे तत्राभून्महिषासुरः।
तोमरैर्भिन्धिपालैश्च शक्तिभिर्मुसलैस्तथा ॥47॥
युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः।
केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥48॥
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥49॥
लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥50॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥51॥
चचारासुर सैन्येषु वनेष्विव हुताशनः।
निःश्वासान् मुमुचेयांश्च युध्यमानारणेऽम्बिका ॥52॥
त एव सध्यसम्भूता गणाः शतसहस्रशः।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥53॥
नाशयन्तोऽअसुरगणान् देवीशक्त्युपबृंहिताः।
अवादयन्ता पटहान् गणाः शङां स्तथापरे ॥54॥
मृदङ्गांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे।
ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः ॥55॥
खड्गादिभिश्च शतशो निजघान महासुरान्।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥56॥
असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्।
केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे ॥57॥
विपोथिता निपातेन गदया भुवि शेरते।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥58॥
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।
निरन्तराः शरौघेन कृताः केचिद्रणाजिरे ॥59॥
शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः।
केषाञ्चिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे ॥60॥
शिरांसि पेतुरन्येषां अन्ये मध्ये विदारिताः।
विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः ॥61॥
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः।
छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥62॥
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।
ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः ॥63॥
कबन्धाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः।
तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः ॥64॥
पातितै रथनागाश्वैः आसुरैश्च वसुन्धरा।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥65॥
शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥66॥
क्षणेन तन्महासैन्यमसुराणां तथाऽम्बिका।
निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् ॥67॥
सच सिंहो महानादमुत्सृजन् धुतकेसरः।
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥68॥
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः।
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ॥69॥
जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः॥
आहुति
ॐ ह्रीं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ।
Related Scriptures
अर्जुन कृत श्री दुर्गा स्तोत्रम्
13 verses
दकारादि दुर्गा अष्टोत्तर शत नामावलि
108 verses
देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः
101 verses
देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः
55 verses
देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः
41 verses
देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः
42 verses
About This Stotram
Overview
Durga Saptasati Chapter 2 (Mahishasura Sainyavadha) is the second chapter of the Devi Mahatmyam in the Markandeya Purana, containing 68 verses. This chapter narrates the battle between Goddess Durga and the armies of the demon Mahishasura, opening the Madhyama Charitra (middle episode) of the text. It is part of the Shakta Puranic canon and belongs to the full Chandipatha recitation cycle.
What are the benefits of chanting Durga Saptasati Chapter 2?
- Recitation is associated with the invocation of the goddess's martial power and protection against adversaries.
- The chapter is held to grant courage and strength when confronting significant challenges.
- Chanting is part of the full Navaratri recitation cycle and contributes to the complete merit of the Chandipatha.
- The narrative of the goddess's battle against demonic forces is understood as an allegory for overcoming internal obstructions.
- The text supports devotion to Durga in her fiercer, war-goddess aspect.
When is the best time to recite this?
Navaratri is the primary occasion, when all chapters are recited in sequence. Chapter 2 falls on the first or second day of the recitation cycle, depending on the tradition followed. Morning and evening recitations during Navaratri are standard. Individual chapters may also be recited at other times.
What is the historical and traditional background?
Chapter 2 begins the Madhyama Charitra (middle episode) of the Devi Mahatmyam, which narrates the goddess's defeat of Mahishasura across chapters 2-4. The Devi Mahatmyam belongs to the Markandeya Purana (approximately 4th-6th centuries CE) and is the foundational scripture of Shaktism. Chapters 2-4 form a narrative unit; this chapter establishes the conflict by describing the goddess's battle with the demon's armies. The text's authorship is attributed in the Puranic tradition to the sage Markandeya.
Available scripts
This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.
Related Texts
- Devi Mahatmyam Durga Saptasati Chapter 1 — the preceding chapter that introduces the text's narrative framework.
- Devi Mahatmyam Durga Saptasati Chapter 3 — the following chapter, which continues the Mahishasura narrative and leads to his defeat.
- Devi Mahatmyam Devi Kavacham — the protective hymn recited before the full Saptasati, invoking the same goddess.
