Stotram - Sacred Scripture

Devi Mahatmyam Durga Saptasati Chapter 2

Devi Mahatmyam Durga Saptasati Chapter 2

Stotram
Durga
68 Verses
110%

देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः

श्लोक 1

महिषासुर सैन्यवधो नाम द्वितीयोऽध्यायः ॥

अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः । उष्णिक् छन्दः । श्रीमहालक्ष्मीदेवता। शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ॥

ध्यानं

ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां

दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।

शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां

सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थिताम् ॥

ऋषिरुवाच

श्लोक 2

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।

महिषेऽसुराणां अधिपे देवानाञ्च पुरन्दरे

तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं।

जित्वा च सकलान् देवान् इन्द्रोऽभून्महिषासुरः

॥1॥

श्लोक 3

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।

पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ

॥3॥

श्लोक 4

यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्।

त्रिदशाः कथयामासुर्देवाभिभवविस्तरम्

॥4॥

श्लोक 5

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च

अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति

॥5॥

श्लोक 6

स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः।

विचरन्ति यथा मर्त्या महिषेण दुरात्मना

॥6॥

श्लोक 7

एतद्वः कथितं सर्वं अमरारिविचेष्टितम्।

शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम्

॥6॥

श्लोक 8

इत्थं निशम्य देवानां वचांसि मधुसूधनः

चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ

॥8॥

श्लोक 9

ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः।

निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च

॥9॥

श्लोक 10

अन्येषां चैव देवानां शक्रादीनां शरीरतः।

निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत

॥10॥

श्लोक 11

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।

ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम्

॥11॥

श्लोक 12

अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्।

एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा

॥12॥

श्लोक 13

यदभूच्छाम्भवं तेजः स्तेनाजायत तन्मुखम्।

याम्येन चाभवन् केशा बाहवो विष्णुतेजसा

॥13॥

श्लोक 14

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्।

वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः

॥14॥

श्लोक 15

ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्क तेजसा।

वसूनां च कराङ्गुल्यः कौबेरेण च नासिका

॥15॥

श्लोक 16

तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा

नयनत्रितयं जज्ञे तथा पावकतेजसा

॥16॥

श्लोक 17

भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च

अन्येषां चैव देवानां सम्भवस्तेजसां शिव

॥17॥

श्लोक 18

ततः समस्त देवानां तेजोराशिसमुद्भवाम्।

तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः

॥18॥

श्लोक 19

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।

चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः

॥19॥

श्लोक 20

शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः

मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी

॥20॥

श्लोक 21

वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः।

ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात्

॥21॥

श्लोक 22

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ।

प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलं

॥22॥

श्लोक 23

समस्तरोमकूपेषु निज रश्मीन् दिवाकरः

कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम्

॥23॥

श्लोक 24

क्षीरोदश्चामलं हारं अजरे च तथाम्बरे

चूडामणिं तथादिव्यं कुण्डले कटकानिच

॥24॥

श्लोक 25

अर्धचन्द्रं तधा शुभ्रं केयूरान् सर्व बाहुषु

नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम्

॥25॥

श्लोक 26

अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च

विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं

॥26॥

श्लोक 27

अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम्।

अम्लान पङ्कजां मालां शिरस्यु रसि चापराम्

॥27॥

श्लोक 28

अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्।

हिमवान् वाहनं सिंहं रत्नानि विविधानिच

॥28॥

श्लोक 29

ददावशून्यं सुरया पानपात्रं दनाधिपः।

शेषश्च सर्व नागेशो महामणि विभूषितम्

॥29॥

श्लोक 30

नागहारं ददऽउ तस्यै धत्ते यः पृथिवीमिमाम्।

अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः

॥30॥

श्लोक 31

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु।

तस्यानादेन घोरेण कृत्स्न मापूरितं नभः

॥31॥

श्लोक 32

अमायतातिमहता प्रतिशब्दो महानभूत्।

चुक्षुभुः सकलालोकाः समुद्राश्च चकम्पिरे

॥32॥

श्लोक 33

चचाल वसुधा चेलुः सकलाश्च महीधराः।

जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम्

॥33॥

श्लोक 34

तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः।

दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यं अमरारयः

॥34॥

श्लोक 35

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः।

आः किमेतदिति क्रोधादाभाष्य महिषासुरः

॥35॥

श्लोक 36

अभ्यधावत तं शब्दं अशेषैरसुरैर्वृतः।

स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा

॥36॥

श्लोक 37

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।

क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम्

॥37॥

श्लोक 38

दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम्।

ततः प्रववृते युद्धं तया देव्या सुरद्विषां

॥38॥

श्लोक 39

शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगन्तरम्।

महिषासुरसेनानीश्चिक्षुराख्यो महासुरः

॥39॥

श्लोक 40

युयुधे चमरश्चान्यैश्चतुरङ्गबलान्वितः।

रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः

॥40॥

श्लोक 41

अयुध्यतायुतानां च सहस्रेण महाहनुः।

पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः

॥41॥

श्लोक 42

अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे।

गजवाजि सहस्रौघै रनेकैः परिवारितः

॥42॥

श्लोक 43

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः

॥43॥

श्लोक 44

युयुधे संयुगे तत्र रथानां परिवारितः।

अन्ये च तत्रायुतशो रथनागहयैर्वृताः

॥44॥

श्लोक 45

युयुधुः संयुगे देव्या सह तत्र महासुराः।

कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा

॥45॥

श्लोक 46

हयानां च वृतो युद्धे तत्राभून्महिषासुरः।

तोमरैर्भिन्धिपालैश्च शक्तिभिर्मुसलैस्तथा

॥46॥

श्लोक 47

युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः।

केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे

॥47॥

श्लोक 48

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका

॥48॥

श्लोक 49

लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।

अनायस्तानना देवी स्तूयमाना सुरर्षिभिः

॥49॥

श्लोक 50

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी।

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी

॥50॥

श्लोक 51

चचारासुर सैन्येषु वनेष्विव हुताशनः।

निःश्वासान् मुमुचेयांश्च युध्यमानारणेऽम्बिका

॥51॥

श्लोक 52

त एव सध्यसम्भूता गणाः शतसहस्रशः।

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः

॥52॥

श्लोक 53

नाशयन्तोऽअसुरगणान् देवीशक्त्युपबृंहिताः।

अवादयन्ता पटहान् गणाः शङां स्तथापरे

॥53॥

श्लोक 54

मृदङ्गांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे।

ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः

॥54॥

श्लोक 55

खड्गादिभिश्च शतशो निजघान महासुरान्।

पातयामास चैवान्यान् घण्टास्वनविमोहितान्

॥55॥

श्लोक 56

असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्।

केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे

॥56॥

श्लोक 57

विपोथिता निपातेन गदया भुवि शेरते।

वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः

॥57॥

श्लोक 58

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।

निरन्तराः शरौघेन कृताः केचिद्रणाजिरे

॥58॥

श्लोक 59

शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः।

केषाञ्चिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे

॥59॥

श्लोक 60

शिरांसि पेतुरन्येषां अन्ये मध्ये विदारिताः।

विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः

॥60॥

श्लोक 61

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः।

छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः

॥61॥

श्लोक 62

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।

ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः

॥62॥

श्लोक 63

कबन्धाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः।

तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः

॥63॥

श्लोक 64

पातितै रथनागाश्वैः आसुरैश्च वसुन्धरा।

अगम्या साभवत्तत्र यत्राभूत् स महारणः

॥64॥

श्लोक 65

शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः।

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम्

॥65॥

श्लोक 66

क्षणेन तन्महासैन्यमसुराणां तथाऽम्बिका।

निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम्

॥66॥

श्लोक 67

सच सिंहो महानादमुत्सृजन् धुतकेसरः।

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति

॥67॥

श्लोक 68

देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः।

यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि

॥68॥

श्लोक 69

जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः॥

आहुति

ॐ ह्रीं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ।