Devi Mahatmyam Durga Saptasati Chapter 8
Devi Mahatmyam Durga Saptasati Chapter 8
देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः
रक्तबीजवधो नाम अष्टमोध्याय ॥
ध्यानं
अरुणां करुणा तरङ्गिताक्षीं धृतपाशाङ्कुश पुष्पबाणचापाम् ।
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ॥
ऋषिरुवाच ॥1॥
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ 2 ॥
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ॥3॥
अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥4॥
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥5॥
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥6॥
इत्याज्ञाप्यासुरापतिः शुम्भो भैरवशासनः ।
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ॥7॥
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥8॥
ततःसिंहॊ महानादमतीव कृतवान्नृप ।
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥9॥
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥10॥
तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥11॥
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहनामतिवीर्यबलान्विताः ॥12॥
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥13॥
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ॥14॥
हंसयुक्तविमानाग्रे साक्षसूत्रक मण्डलुः ।
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ॥15॥
महेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ताचन्द्ररेखाविभूषणा ॥16॥
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥17॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्खचक्रगधाशाङ्खर् खड्गहस्ताभ्युपाययौ ॥18॥
यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥19॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ॥20॥
वज्र हस्ता तथैवैन्द्री गजराजो परिस्थिता ।
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ॥21॥
ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः ।
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकां ॥22॥
ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा ।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥23॥
सा चाह धूम्रजटिलं ईशानमपराजिता ।
दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥24॥
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥25॥
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥26॥
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ।
तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥27॥
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्याति मागता ॥28॥
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥29॥
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ॥30॥
सा च तान् प्रहितान् बाणान् ञ्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥31॥
तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्वाङ्गपोथितांश्चारीन्कुर्वन्ती व्यचरत्तदा ॥32॥
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥33॥
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ॥34॥
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥35॥
तुण्डप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥36॥
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।
नारसिंही चचाराजौ नादा पूर्णदिगम्बरा ॥37॥
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥38॥
इति मातृ गणं क्रुद्धं मर्द यन्तं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥39॥
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥40॥
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥41॥
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥42॥
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ॥43॥
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।
तावन्तः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ॥44॥
ते चापि युयुधुस्तत्र पुरुषा रक्त सम्भवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ॥45॥
पुनश्च वज्र पातेन क्षत मश्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥46॥
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥47॥
वैष्णवी चक्रभिन्नस्य रुधिरस्राव सम्भवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥48॥
शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥49॥
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥50॥
तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः ।
पपात यो वै रक्तौघस्तेनासञ्चतशोऽसुराः ॥51॥
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥52॥
तान् विषण्णा न् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् ।
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥53॥
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥54॥
भक्षयन्ती चर रणो तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ॥55॥
भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥56॥
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
ततोऽसावाजघानाथ गदया तत्र चण्डिकां ॥57॥
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥58॥
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥59॥
तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥60॥
देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः ।
जघान रक्तबीजं तं चामुण्डा पीत शोणितम् ॥61॥
स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ।
नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥62॥
ततस्ते हर्ष मतुलं अवापुस्त्रिदशा नृप ।
तेषां मातृगणो जातो ननर्तासृंङ्गमदोद्धतः ॥63॥
॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥
आहुति
ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥
Related Scriptures
अर्जुन कृत श्री दुर्गा स्तोत्रम्
13 verses
दकारादि दुर्गा अष्टोत्तर शत नामावलि
108 verses
देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः
101 verses
देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः
55 verses
देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः
41 verses
देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः
68 verses
About This Stotram
Overview
Devi Mahatmyam Durga Saptasati Chapter 8, known as the Raktabija Vadha (Slaying of Raktabija), is the eighth chapter of the Devi Mahatmyam from the Markandeya Purana. It contains 63 Sanskrit verses describing the defeat of the demon Raktabija, who could regenerate from each drop of his blood, through the intervention of Goddess Kali. The chapter is part of the Shakta tradition and is recited as part of the complete Saptasati cycle honoring Goddess Durga.
What are the benefits of chanting Raktabija Vadha?
- Protection from enemies and regenerating obstacles
- Victory over seemingly insurmountable challenges
- Attainment of courage and inner strength
- Removal of fear and anxiety
When is the best time to recite this?
Chapter 8 is recited during Navaratri and Durga Puja as part of the full sequential reading of the Devi Mahatmyam. Morning and evening recitations are also observed for general protection.
What is the historical and traditional background?
The Devi Mahatmyam forms part of the Markandeya Purana, generally dated to the Gupta period, circa the 4th to 6th centuries CE. Chapter 8 holds a pivotal place within the third episode (uttara charitra): it introduces Kali as a distinct manifestation of Durga and presents the philosophical idea that destruction of the gross form of evil is insufficient without addressing its capacity for renewal. The text is anonymous; tradition attributes the Markandeya Purana to the sage Markandeya.
Available scripts
This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.
Related Texts
- Devi Mahatmyam Durga Saptasati Chapter 6 — an earlier chapter in the same episode describing the initial battles against the demon generals
- Devi Mahatmyam Keelaka Stotram — a preparatory hymn traditionally recited before beginning the full Saptasati
