Stotram - Sacred Scripture

Devi Mahatmyam Durga Saptasati Chapter 4

Devi Mahatmyam Durga Saptasati Chapter 4

Stotram
Durga
42 Verses
110%

देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः

शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥

ध्यानं

कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां

शङ्ख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहन्तीं त्रिनेऱ्त्रम् ।

सिंह स्कन्दाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयन्तीं

ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥

ऋषिरुवाच ॥1॥

शक्रादयः सुरगणा निहतेऽतिवीर्ये

तस्मिन्दुरात्मनि सुरारिबले च देव्या ।

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा

वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥

देव्या यया ततमिदं जगदात्मशक्त्या

निःशेषदेवगणशक्तिसमूहमूर्त्या ।

तामम्बिकामखिलदेवमहर्षिपूज्यां

भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥

यस्याः प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्च नहि वक्तुमलं बलं च ।

सा चण्डिकाऽखिल जगत्परिपालनाय

नाशाय चाशुभभयस्य मतिं करोतु ॥4॥

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः

पापात्मनां कृतधियां हृदयेषु बुद्धिः ।

श्रद्था सतां कुलजनप्रभवस्य लज्जा

तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥

किं वर्णयाम तवरूप मचिन्त्यमेतत्

किञ्चातिवीर्यमसुरक्षयकारि भूरि ।

किं चाहवेषु चरितानि तवात्भुतानि

सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥

हेतुः समस्तजगतां त्रिगुणापि दोषैः

न ज्ञायसे हरिहरादिभिरव्यपारा ।

सर्वाश्रयाखिलमिदं जगदंशभूतं

अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥

यस्याः समस्तसुरता समुदीरणेन

तृप्तिं प्रयाति सकलेषु मखेषु देवि ।

स्वाहासि वै पितृ गणस्य च तृप्ति हेतु

रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥

या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं

अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः ।

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै

र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥

शब्दात्मिका सुविमलर्ग्यजुषां निधानं

मुद्गीथरम्यपदपाठवतां च साम्नाम् ।

देवी त्रयी भगवती भवभावनाय

वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥

मेधासि देवि विदिताखिलशास्त्रसारा

दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा ।

श्रीः कैट भारिहृदयैककृताधिवासा

गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा ॥11॥

ईषत्सहासममलं परिपूर्ण चन्द्र

बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।

अत्यद्भुतं प्रहृतमात्तरुषा तथापि

वक्त्रं विलोक्य सहसा महिषासुरेण ॥12॥

दृष्ट्वातु देवि कुपितं भ्रुकुटीकराल

मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।

प्राणान् मुमोच महिषस्तदतीव चित्रं

कैर्जीव्यते हि कुपितान्तकदर्शनेन । ॥13॥

देविप्रसीद परमा भवती भवाय

सद्यो विनाशयसि कोपवती कुलानि ।

विज्ञातमेतदधुनैव यदस्तमेतत्

न्नीतं बलं सुविपुलं महिषासुरस्य ॥14॥

ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति धर्मवर्गः ।

धन्यास्त​एव निभृतात्मजभृत्यदारा

येषां सदाभ्युदयदा भवती प्रसन्ना ॥15॥

धर्म्याणि देवि सकलानि सदैव कर्मानि

ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।

स्वर्गं प्रयाति च ततो भवती प्रसादा

ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥16॥

दुर्गे स्मृता हरसि भीति मशेश जन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्यदुःखभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदार्द्रचित्ता ॥17॥

एभिर्हतैर्जगदुपैति सुखं तथैते

कुर्वन्तु नाम नरकाय चिराय पापम् ।

सङ्ग्राममृत्युमधिगम्य दिवम्प्रयान्तु

मत्वेति नूनमहितान्विनिहंसि देवि ॥18॥

दृष्ट्वैव किं न भवती प्रकरोति भस्म

सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।

लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता

इत्थं मतिर्भवति तेष्वहि तेऽषुसाध्वी ॥19॥

खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः

शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।

यन्नागता विलयमंशुमदिन्दुखण्ड

योग्याननं तव विलोक यतां तदेतत् ॥20॥

दुर्वृत्त वृत्त शमनं तव देवि शीलं

रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।

वीर्यं च हन्तृ हृतदेवपराक्रमाणां

वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥21॥

केनोपमा भवतु तेऽस्य पराक्रमस्य

रूपं च शतृभय कार्यतिहारि कुत्र ।

चित्तेकृपा समरनिष्टुरता च दृष्टा

त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥22॥

त्रैलोक्यमेतदखिलं रिपुनाशनेन

त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।

नीता दिवं रिपुगणा भयमप्यपास्तं

अस्माकमुन्मदसुरारिभवं नमस्ते ॥23॥

शूलेन पाहि नो देवि पाहि खड्गेन चाम्भिके ।

घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ॥24॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी ॥25॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्तिते ।

यानि चात्यन्त घोराणि तैरक्षास्मांस्तथाभुवम् ॥26॥

खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।

करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥27॥

ऋषिरुवाच ॥28॥

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।

अर्चिता जगतां धात्री तथा गन्धानु लेपनैः ॥29॥

भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता ।

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्। ॥30॥

देव्युवाच ॥31॥

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ॥32॥

देवा ऊचु ॥33॥

भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ।

यदयं निहतः शत्रु रस्माकं महिषासुरः ॥34॥

यदिचापि वरो देय स्त्वयाऽस्माकं महेश्वरि ।

संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः ॥35॥

यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ।

तस्य वित्तर्द्धिविभवैर्धनदारादि सम्पदाम् ॥36॥

वृद्दयेऽ स्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्भिके ॥37॥

ऋषिरुवाच ॥38॥

इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥39॥

इत्येतत्कथितं भूप सम्भूता सा यथापुरा ।

देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी ॥40॥

पुनश्च गौरी देहात्सा समुद्भूता यथाभवत् ।

वधाय दुष्ट दैत्यानां तथा शुम्भनिशुम्भयोः ॥41॥

रक्षणाय च लोकानां देवानामुपकारिणी ।

तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते

ह्रीं ॐ ॥42॥

॥ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः समाप्तम् ॥

आहुति

ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥

About This Stotram

Overview

Devi Mahatmyam Durga Saptasati Chapter 4, known as the Shakradi Stuti, is the fourth chapter of the Devi Mahatmyam, a section of the Markandeya Purana central to the Shakta tradition. It contains the hymns sung by Indra and other celestial beings to Goddess Durga after her victory over the demon Mahishasura. The chapter consists of 42 verses in Sanskrit and is one of thirteen chapters that make up the Devi Mahatmyam.

What are the benefits of chanting Shakradi Stuti?

  • Protection from enemies and negative forces
  • Attainment of victory and success in difficult situations
  • Removal of obstacles and fears
  • Spiritual purification and inner strength

When is the best time to recite this?

This chapter is recited during Navaratri and Durga Puja as part of the complete Saptasati cycle. Morning and evening recitations are also common, particularly when one seeks courage or protection.

What is the historical and traditional background?

The Devi Mahatmyam is a foundational text within Shaktism, the tradition that venerates the Divine Feminine as the supreme being. It forms part of the Markandeya Purana, generally dated between the 4th and 6th centuries CE. Chapter 4 holds a specific place in the text's structure: it concludes the first episode (charitra) dealing with the defeat of Mahishasura and transitions into the middle section of the larger narrative. The author of the Devi Mahatmyam is unknown; the text is attributed to the sage Markandeya by tradition.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Devi Mahatmyam Keelaka Stotram — a preparatory hymn recited before the Devi Mahatmyam to unlock its full recitation benefits
  • Devi Mahatmyam Durga Saptasati Chapter 5 — the following chapter, continuing the narrative of the battle against Shumbha and Nishumbha
देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः | (Devi Mahatmyam Durga Saptasati Chapter 4) Lyrics | Vedic Tithi