Stotram - Sacred Scripture

Devi Mahatmyam Durga Saptasati Chapter 4

Devi Mahatmyam Durga Saptasati Chapter 4

Stotram
Durga
42 Verses
110%

देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः

श्लोक 1

शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥

ध्यानं

कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां

शङ्ख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहन्तीं त्रिनेऱ्त्रम् ।

सिंह स्कन्दाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयन्तीं

ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥

ऋषिरुवाच

श्लोक 2

शक्रादयः सुरगणा निहतेऽतिवीर्ये

तस्मिन्दुरात्मनि सुरारिबले च देव्या ।

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा

वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः

॥1॥

श्लोक 3

देव्या यया ततमिदं जगदात्मशक्त्या

निःशेषदेवगणशक्तिसमूहमूर्त्या ।

तामम्बिकामखिलदेवमहर्षिपूज्यां

भक्त्या नताः स्म विदधातुशुभानि सा नः

॥ 2 ॥

श्लोक 4

यस्याः प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्च नहि वक्तुमलं बलं च ।

सा चण्डिकाऽखिल जगत्परिपालनाय

नाशाय चाशुभभयस्य मतिं करोतु

॥3॥

श्लोक 5

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः

पापात्मनां कृतधियां हृदयेषु बुद्धिः ।

श्रद्था सतां कुलजनप्रभवस्य लज्जा

तां त्वां नताः स्म परिपालय देवि विश्वम्

॥4॥

श्लोक 6

किं वर्णयाम तवरूप मचिन्त्यमेतत्

किञ्चातिवीर्यमसुरक्षयकारि भूरि ।

किं चाहवेषु चरितानि तवात्भुतानि

सर्वेषु देव्यसुरदेवगणादिकेषु ।

॥5॥

श्लोक 7

हेतुः समस्तजगतां त्रिगुणापि दोषैः

न ज्ञायसे हरिहरादिभिरव्यपारा ।

सर्वाश्रयाखिलमिदं जगदंशभूतं

अव्याकृता हि परमा प्रकृतिस्त्वमाद्या

॥6॥

श्लोक 8

यस्याः समस्तसुरता समुदीरणेन

तृप्तिं प्रयाति सकलेषु मखेषु देवि ।

स्वाहासि वै पितृ गणस्य च तृप्ति हेतु

रुच्चार्यसे त्वमत एव जनैः स्वधाच

॥6॥

श्लोक 9

या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं

अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः ।

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै

र्विद्याऽसि सा भगवती परमा हि देवि

॥8॥

श्लोक 10

शब्दात्मिका सुविमलर्ग्यजुषां निधानं

मुद्गीथरम्यपदपाठवतां च साम्नाम् ।

देवी त्रयी भगवती भवभावनाय

वार्तासि सर्व जगतां परमार्तिहन्त्री

॥9॥

श्लोक 11

मेधासि देवि विदिताखिलशास्त्रसारा

दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा ।

श्रीः कैट भारिहृदयैककृताधिवासा

गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा

॥10॥

श्लोक 12

ईषत्सहासममलं परिपूर्ण चन्द्र

बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।

अत्यद्भुतं प्रहृतमात्तरुषा तथापि

वक्त्रं विलोक्य सहसा महिषासुरेण

॥11॥

श्लोक 13

दृष्ट्वातु देवि कुपितं भ्रुकुटीकराल

मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।

प्राणान् मुमोच महिषस्तदतीव चित्रं

कैर्जीव्यते हि कुपितान्तकदर्शनेन ।

॥12॥

श्लोक 14

देविप्रसीद परमा भवती भवाय

सद्यो विनाशयसि कोपवती कुलानि ।

विज्ञातमेतदधुनैव यदस्तमेतत्

न्नीतं बलं सुविपुलं महिषासुरस्य

॥13॥

श्लोक 15

ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति धर्मवर्गः ।

धन्यास्त​एव निभृतात्मजभृत्यदारा

येषां सदाभ्युदयदा भवती प्रसन्ना

॥14॥

श्लोक 16

धर्म्याणि देवि सकलानि सदैव कर्मानि

ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।

स्वर्गं प्रयाति च ततो भवती प्रसादा

ल्लोकत्रयेऽपि फलदा ननु देवि तेन

॥15॥

श्लोक 17

दुर्गे स्मृता हरसि भीति मशेश जन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्यदुःखभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदार्द्रचित्ता

॥16॥

श्लोक 18

एभिर्हतैर्जगदुपैति सुखं तथैते

कुर्वन्तु नाम नरकाय चिराय पापम् ।

सङ्ग्राममृत्युमधिगम्य दिवम्प्रयान्तु

मत्वेति नूनमहितान्विनिहंसि देवि

॥17॥

श्लोक 19

दृष्ट्वैव किं न भवती प्रकरोति भस्म

सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।

लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता

इत्थं मतिर्भवति तेष्वहि तेऽषुसाध्वी

॥18॥

श्लोक 20

खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः

शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।

यन्नागता विलयमंशुमदिन्दुखण्ड

योग्याननं तव विलोक यतां तदेतत्

॥19॥

श्लोक 21

दुर्वृत्त वृत्त शमनं तव देवि शीलं

रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।

वीर्यं च हन्तृ हृतदेवपराक्रमाणां

वैरिष्वपि प्रकटितैव दया त्वयेत्थम्

॥20॥

श्लोक 22

केनोपमा भवतु तेऽस्य पराक्रमस्य

रूपं च शतृभय कार्यतिहारि कुत्र ।

चित्तेकृपा समरनिष्टुरता च दृष्टा

त्वय्येव देवि वरदे भुवनत्रयेऽपि

॥21॥

श्लोक 23

त्रैलोक्यमेतदखिलं रिपुनाशनेन

त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।

नीता दिवं रिपुगणा भयमप्यपास्तं

अस्माकमुन्मदसुरारिभवं नमस्ते

॥22॥

श्लोक 24

शूलेन पाहि नो देवि पाहि खड्गेन चाम्भिके ।

घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च

॥23॥

श्लोक 25

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी

॥24॥

श्लोक 26

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्तिते ।

यानि चात्यन्त घोराणि तैरक्षास्मांस्तथाभुवम्

॥25॥

श्लोक 27

खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।

करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः

॥26॥

श्लोक 28

ऋषिरुवाच

॥27॥

श्लोक 29

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।

अर्चिता जगतां धात्री तथा गन्धानु लेपनैः

॥28॥

श्लोक 30

भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता ।

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्।

॥29॥

श्लोक 31

देव्युवाच

॥30॥

श्लोक 32

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम्

॥31॥

श्लोक 33

देवा ऊचु

॥32॥

श्लोक 34

भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ।

यदयं निहतः शत्रु रस्माकं महिषासुरः

॥33॥

श्लोक 35

यदिचापि वरो देय स्त्वयाऽस्माकं महेश्वरि ।

संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः

॥34॥

श्लोक 36

यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ।

तस्य वित्तर्द्धिविभवैर्धनदारादि सम्पदाम्

॥35॥

श्लोक 37

वृद्दयेऽ स्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्भिके

॥36॥

श्लोक 38

ऋषिरुवाच

॥37॥

श्लोक 39

इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप

॥38॥

श्लोक 40

इत्येतत्कथितं भूप सम्भूता सा यथापुरा ।

देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी

॥39॥

श्लोक 41

पुनश्च गौरी देहात्सा समुद्भूता यथाभवत् ।

वधाय दुष्ट दैत्यानां तथा शुम्भनिशुम्भयोः

॥40॥

श्लोक 42

रक्षणाय च लोकानां देवानामुपकारिणी ।

तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते

ह्रीं ॐ

॥41॥

श्लोक 43

॥ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः समाप्तम् ॥

आहुति

ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥