Kavacham - Sacred Scripture

Surya Kavacham

Surya Kavacham

Kavacham
Surya
45 Verses
110%

सूर्य कवचम्

श्लोक 1

श्रीभैरव उवाच

यो देवदेवो भगवान् भास्करो महसां निधिः ।

गयत्रीनायको भास्वान् सवितेति प्रगीयते

श्लोक 2

तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।

सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम्

॥ 1 ॥

श्लोक 3

सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् ।

महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम्

॥ 2 ॥

श्लोक 4

सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् ।

सर्वतेजोमयं सर्वदेवदानवपूजितम्

॥ 3 ॥

श्लोक 5

रणे राजभये घोरे सर्वोपद्रवनाशनम् ।

मातृकावेष्टितं वर्म भैरवानननिर्गतम्

॥ 4 ॥

श्लोक 6

ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् ।

धारणादस्य देवेशि ब्रह्मा लोकपितामहः

॥ 5 ॥

श्लोक 7

विष्णुर्नारायणो देवि रणे दैत्याञ्जिष्यति ।

शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः

॥ 6 ॥

श्लोक 8

ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः ।

मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम्

॥ 7 ॥

श्लोक 9

यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि ।

स राजवल्लभो लोके तेजस्वी वैरिमर्दनः

॥ 8 ॥

श्लोक 10

बहुनोक्तेन किं देवि कवचस्यास्य धारणात् ।

इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा

॥ 9 ॥

श्लोक 11

परत्र परमा मुक्तिर्देवानामपि दुर्लभा ।

कवचस्यास्य देवेशि मूलविद्यामयस्य च

॥ 10 ॥

श्लोक 12

वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः ।

गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः

॥ 11 ॥

श्लोक 13

माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि ।

सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः

॥ 12 ॥

श्लोक 14

अथ सूर्य कवचं

ॐ अं आं इं ईं शिरः पातु ॐ सूर्यो मन्त्रविग्रहः ।

उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः

॥ 13 ॥

श्लोक 15

~लुं ~लूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः ।

ॐ औं अं अः श्रुती पातु सः सर्वजगदीश्वरः

॥ 14 ॥

श्लोक 16

कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः ।

चं छं जं झं च नासां मे पातु यारं अर्यमा प्रभुः

॥ 15 ॥

श्लोक 17

टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः ।

तं थं दं धं गलं पातु नं नारायणवल्लभः

॥ 16 ॥

श्लोक 18

पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः ।

यं रं लं वं भुजौ पातु मूलं सकनायकः

॥ 17 ॥

श्लोक 19

शं षं सं हं पातु वक्षो मूलमन्त्रमयो ध्रुवः ।

लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः

॥ 18 ॥

श्लोक 20

ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः ।

अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः

॥ 19 ॥

श्लोक 21

~लुं ~लूं एं ऐं ॐ औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः ।

कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु

॥ 20 ॥

श्लोक 22

टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु ।

पं फं बं भं यं रं लं वं जङ्घे मेऽव्याद् विभाकरः

॥ 21 ॥

श्लोक 23

शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः ।

ङं ञं णं नं मं मे पातु सविता सकलं वपुः

॥ 22 ॥

श्लोक 24

सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु ।

बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम्

॥ 23 ॥

श्लोक 25

पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः ।

उत्तरे मां तमः पायादैशान्यां मां शिखी तथा

॥ 24 ॥

श्लोक 26

ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः ।

प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः

॥ 25 ॥

श्लोक 27

सायं वेदप्रियः पातु निशीथे विस्फुरापतिः ।

सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः

॥ 26 ॥

श्लोक 28

रणे राजकुले द्यूते विदादे शत्रुसङ्कटे ।

सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः

॥ 27 ॥

श्लोक 29

ॐ ॐ ॐ उत ॐउऔं ह स म यः सूरोऽवतान्मां भयाद्

ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः ।

सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् सङ्कटात्

पायान्मां कुलनायकोऽपि सविता ॐ ह्रीं ह सौः सर्वदा

॥ 28 ॥

श्लोक 30

द्रां द्रीं द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो

रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् ।

अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको

मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान्

॥ 29 ॥

श्लोक 31

अथ फलशृतिः

इति श्रीकवचं दिव्यं वज्रपञ्जरकाभिधम् ।

सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम्

॥ 30॥

श्लोक 32

महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् ।

गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे

॥ 31 ॥

श्लोक 33

लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये ।

अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति

॥ 32 ॥

श्लोक 34

अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि ।

कनकीकाष्ठलेखन्या कवचं भास्करोदये

॥ 33 ॥

श्लोक 35

श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् ।

सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे

॥ 34 ॥

श्लोक 36

रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति ।

राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत्

॥ 35 ॥

श्लोक 37

कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी ।

शिरःस्था गुटिका दिव्या राकलोकवशङ्करी

॥ 36 ॥

श्लोक 38

भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी ।

वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना

॥ 37 ॥

श्लोक 39

कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये ।

यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि

॥ 38 ॥

श्लोक 40

महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति ।

तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः

॥ 39 ॥

श्लोक 41

त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् ।

तस्य सद्यो महादेवि सविता वरदो भवेत्

॥ 40 ॥

श्लोक 42

अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् ।

तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम्

॥ 41 ॥

श्लोक 43

शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे ।

महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः

॥ 42 ॥

श्लोक 44

निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् ।

लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः

॥ 43 ॥

श्लोक 45

भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये ।

इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात्

॥ 44 ॥

श्लोक 46

इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये

वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ॥