Stotram - Sacred Scripture

Suryashtakam

Suryashtakam

Stotram
Surya
8 Verses
110%

सूर्याष्टकम्

श्लोक 1

शाम्ब उवाच

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते

श्लोक 2

सप्ताश्व रथ मारूढं प्रचण्डं कश्यपात्मजम् ।

श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहम्

॥ 1 ॥

श्लोक 3

लोहितं रथमारूढं सर्व लोक पितामहम् ।

महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम्

॥ 2॥

श्लोक 4

त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरम् ।

महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम्

॥ 3॥

श्लोक 5

बृंहितं तेजसां पुञ्जं [तेजपूज्यं च] वायु माकाश मेव च ।

प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्

॥ 4 ॥

श्लोक 6

बन्धूक पुष्पसङ्काशं हार कुण्डल भूषितम् ।

एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहम्

॥ 5 ॥

श्लोक 7

विश्वेशं विश्व कर्तारं महातेजः प्रदीपनम् ।

महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम्

॥ 6 ॥

श्लोक 8

तं सूर्यं जगतां नाथं ज्ञान विज्ञान मोक्षदम् ।

महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम्

॥ 7 ॥

श्लोक 9

फलशृति

सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।

अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥

आमिषं मधुपानं च यः करोति रवेर्धिने ।

सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता ॥

स्त्री तैल मधु मांसानि ये त्यजन्ति रवेर्दिने ।

न व्याधि शोक दारिद्र्यं सूर्यलोकं स गच्छति ॥

इति श्री शिवप्रोक्तं श्री सूर्याष्टकं सम्पूर्णम् ॥